________________
-
ஓழாடுகஇருகாருறும்இ
शाश्यते शुभम् ॥ १२ ॥ सुवर्णकमलैः पोष्यमाणाप्यरोषितापि च । पितृभ्यामप्यनाहूता, वधूः पितृगृहं ययौ ॥ १३ ॥
यशोमत्येति कथिते, पुरतः सुन्दरस्य तु । विमृश्यान्तस्तदैवैष, तस्यै प्रत्युत्तरं ददौ ॥१४॥ युग्मम् । अथ सङ्कीर्णरथ्यायां, पृष्ठप्रेरणकर्मणा । पिण्डीभूतेभ्योऽप्यमाङ्गयो, वृषभेभ्यः पृथग भवन् ॥१५॥ जात्यरत्नभृगोणीको, देश्यवाणिज्यकारिणाम् । उक्षकः प्रदोपे पुण्य-मिव तद्नेहमाविशत् ॥ १६॥ युग्मम् । प्रविष्टं वृषभं वीक्ष्य, प्रेक्षावान् सुन्दरस्ततः । दिशो निरूप्य
गोणी चा-दाय तं निरवासयत् ॥ १७ ॥ गोणीमानामथो गर्ती, खनित्वात्र निवेश्य ताम् । लिप्त्वोपरि ततः स्वस्तिदान लास्वस्तिकानदापयत् ॥ १८ ॥ भूयिष्ठेप्यथ यातेषु, दिनेषूद्धत्य तां ततः । विभाव्य जात्यरत्नानि, दृष्टोऽवादीद्यशोमतीम्
॥ १९ ॥श्वा न म्रियेत यद्यप, ततो धावेत् खरं रटन् । बलीव ईश्च न त्रासात्, प्रविशेत्त्वद्गृहं ततः॥ २०॥ मृतेऽप्यस्मिन् यदि द्वारं, त्वद्नेहस्य पतेन्न हि । असावुक्षा सगोणिश्च, नैव वेश्म समाविशेत् ॥ २१ ॥ अथ प्रविष्टोऽसौ नो चेदू, गच्छेत् पितृगृहं वधूः । ततः कुत्रापि सा ब्रूयाजनेऽप्याविर्भवेदिदम् ॥ २२ ॥ अथेयान् लाभवृत्तान्तोऽषडक्षीणो बभूव यत् ।। तनिश्चितमुपरोध-दानस्यैतद्विजृम्भितम् ॥ २३ ॥ इति प्रत्ययितो दान-प्रभावे स तपस्विनाम् । मुञ्चन्मिथ्यात्वभावं च, सदा दानपरोऽभवत् ॥ २४ ॥ अथान्येद्युस्तन्नगरनृपत्य कुशौ शूलमभूत् । विविधैरप्युपायैरनुपशान्ते तस्मिन् मन्त्री पटहमवादयत् । सुन्दर श्रेष्ठी तं स्पृष्ट्वा शूलच्छेदिरत्नाङ्कमुद्रिकालोडितं पयः पायित्वा राजानं पटूचकार । ततस्तुष्टेन राज्ञा नगरश्रेष्ठीचक्रे । ततो बहुन् वत्सरान् श्रेडित्वं प्रतिपाल्य समये चारित्रं स्वीकृत्य दिवं ययौ । इत्युपरोधदाने सुन्दरकथा । जिनधर्माश्रिता अपि सनिदानाऽविधितपोदानादयोऽप्यत्र भने ज्ञेयाः । तत्कारिणश्चन्द्रसूर्यबहु
|
000000
Jain Education
a
l
For Private & Personal Use Only
arjainelibrary.org