SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उ. १८ Jain Education In सर्वेऽपि लौकिकधर्मा गृह्यन्ते, चरकपरिव्राजकादिधर्माश्च ते च विचित्रत्वाद्विचित्रफलाः । तथाहि — केचिन्महायज्ञस्त्रानहोमादयः कन्थेर्यादिवत् परत्र व नरकाद्यनर्थफला एव प्रायः, केचित्विहापि तुरुमिणीशदत्तनृपादेवि, न तु किश्चिच्छुभफलाः । तथा चोक्तमारण्यके - "ये वै इह यथा यथा यज्ञेषु पशून् विशसन्ति ते” । तथा शुकसंवादे — यूपं छित्त्वा ॐ पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते १ ॥ १ ॥ स्कन्दपुराणेऽपि - वृक्षांछित्त्वा पशून् हत्या, कृत्वा रुधिरकर्दमम् । दग्ध्वा वह्नौ तिलाज्यादि, चित्रं स्वर्गोऽभिलष्यते ! ॥ २ ॥ इत्यादि १ । केचिचपात्राशुद्धदान गायत्र्यादिजापादयो धवपलाशादिवत् प्रायोडफला एव, सामग्रीविशेषादिभिः किञ्चित्फलजनकत्वमनर्थजनकत्वं च वनेषु धर्मेषु (च) न विवक्षितम् । अत्र प्रतिदिनं लक्षदानदातृगजीभूतश्रेष्ठिदानशालादिकारणमहादानादिप्रवर्त्तकनन्दमणिकारसेचनगजीभूतलक्ष भोज्यकारिब्राह्मणप्रभृतयो दृष्टान्ता ज्ञेयाः २ । केचित्तु ससावद्यानुष्ठानतपोनियमदानादयस्तरुरोॐ पणवापीकूपतडागादिनिर्मापणान्यायार्जितद्रव्य कुपात्रदानादयश्च बदरीशम्यादिवत् किञ्चिद्राज्याद्यसारं शुभफलं दुर्लभबोधिताहीनजातित्वपरिणामविरसत्वाद्यनर्थं च ददते, कौणिकप्राग्भवतपस्विवत् । ये च लोकोत्तरमिथ्यादृशः सुसढादयो देवादित्वेनोत्पन्ना बहुसंसारगामिनश्च तेऽपि मिथ्यातपः परत्वादस्मिन्नेव भङ्गे ज्ञेयाः ३ । केचित्तु किम्पाकादिवत् तत्तत्कदाग्रहदेवगुर्वादिप्रत्यनीक तादिभावविशेषितास्तादृक्तपोऽनुष्ठानादयः सकृत् स्वर्गादिफलं दत्त्वा बहुसंसारतिर्यत्वनारकादिदुःखदायिनो गोशालकलान्तकदेवलोकाधस्त्रयोदशसागरायुः किल्विषत्वोत्पन्नजमाल्यादीनामिव ४ । केचित्तु भद्रकभावविशेषपात्रगुणाद्यपरिज्ञानकृतदानार्चादयो मिथ्यात्वानुरागिभिः कृता उदुम्बरादिवत् किञ्चिद्राज्यनृभो 00 For Private & Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy