SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर तरंग २ ॥१०२॥ 000000000000000000000 किन्तु कङ्काहसङ्गरकरीरवब्बुलजफलानि सामान्यानि नीरसाणि च दत्ते । सगरेति च प्रसिद्धान्यापाते किञ्चिन्मिष्टान्यपि दत्ते, कण्टकाकीर्णतया विदारणाद्यनर्थहेतुश्च स्यात् । एवं भिक्षूणां धर्मो ब्रह्मचर्यादिकियक्रियाध्यानादिमयत्त्वाद् व्यन्तरामरत्वादि किञ्चिच्छुभं फलं दत्ते । मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षापानं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ मणुन्नं भोअणं भुच्चा, मणुन्नं सयणासणं । मणुन्नंसि अगारंसि, मणुनं झायए मुणी ॥१॥ इत्यादिवचनाद् वपुःपरिपोषकृन्मनोऽनुकूलाहारशय्यादिपरिभोगात् पात्रपतितामिषादेरण्यपरित्यागाच मुखे मिष्टोऽपि भवान्तरे दुर्गत्याद्यनर्थफलमपि जनयतीति सोऽपि त्याज्य एव । इति द्वितीयो धर्मभेदः।। गिरिवणानि च विचित्राणि स्युरुपलक्षणादरण्यानीवनान्यपि ग्राह्याणि, तेषु हि केचित्तरवः स्नुहीकन्थेरीकुमारीप्रमुखाः फलप्रदायिनः कण्टकादिभिर्विदारणाद्यनर्थजनकाच १ । केचिद्धवसल्लकीपलाशपनसशिंशपादयो निःसारा निष्फला विशिष्यानर्थजनकाश्च भवन्ति २ । केचिद्वदरीशमीखदिरादयो निःसाराशुभफलाः कण्टकैर्विदारणाद्यनर्थजनकाश्च स्थुः ३ । केचित्तु किम्पाळादिकतरवो मुखमिष्टपरिणामविरसफलाः ४ । केचित्तूदुम्बरबिल्वादयो निःसारशुभफलाः कण्टकाद्यभावादनाजनकाश्च विद्यन्ते ५ । केचित्तु नारिङ्गजम्बीरकरणादयो मध्यमफलास्तरवोऽनाजनकाश्च ६ । केचित्तु राजादनसहकारप्रियङ्गप्रभृतयः सरसशुभपुष्पफला अपरिगृहीताश्चामी अत्र गृह्यन्ते । परिग्रहयोग्यास्तु नृपवनमध्ये गणयिष्यन्ते ७ । एवं च तारतम्येनाधममध्यमोत्तमतरुवैचित्र्याद् गिरिवणानामपि वैचित्र्यम् । तथा तावसत्ति श्रीऋषभदेवसमयोत्पन्नत्वेनाद्यत्वात्तापसग्रहणं तस्योपलक्षणत्वान्नैयायिकवैशेषिकजैमिनीयसायवैष्णवाद्याश्रिताः 00000000000000 |॥१०२॥ च तारतम्येनाभपुष्पफला अपरिगृहीताणादयो मध्यमफलास्तरमा Jain Education a l For Private Personal Use Only IMhilaw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy