________________
मुनिसुन्दर सू० वि०
उपदेशर तरंग २
॥१०२॥
000000000000000000000
किन्तु कङ्काहसङ्गरकरीरवब्बुलजफलानि सामान्यानि नीरसाणि च दत्ते । सगरेति च प्रसिद्धान्यापाते किञ्चिन्मिष्टान्यपि दत्ते, कण्टकाकीर्णतया विदारणाद्यनर्थहेतुश्च स्यात् । एवं भिक्षूणां धर्मो ब्रह्मचर्यादिकियक्रियाध्यानादिमयत्त्वाद् व्यन्तरामरत्वादि किञ्चिच्छुभं फलं दत्ते । मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षापानं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ मणुन्नं भोअणं भुच्चा, मणुन्नं सयणासणं । मणुन्नंसि अगारंसि, मणुनं झायए मुणी ॥१॥ इत्यादिवचनाद् वपुःपरिपोषकृन्मनोऽनुकूलाहारशय्यादिपरिभोगात् पात्रपतितामिषादेरण्यपरित्यागाच मुखे मिष्टोऽपि भवान्तरे दुर्गत्याद्यनर्थफलमपि जनयतीति सोऽपि त्याज्य एव । इति द्वितीयो धर्मभेदः।।
गिरिवणानि च विचित्राणि स्युरुपलक्षणादरण्यानीवनान्यपि ग्राह्याणि, तेषु हि केचित्तरवः स्नुहीकन्थेरीकुमारीप्रमुखाः फलप्रदायिनः कण्टकादिभिर्विदारणाद्यनर्थजनकाच १ । केचिद्धवसल्लकीपलाशपनसशिंशपादयो निःसारा निष्फला विशिष्यानर्थजनकाश्च भवन्ति २ । केचिद्वदरीशमीखदिरादयो निःसाराशुभफलाः कण्टकैर्विदारणाद्यनर्थजनकाश्च स्थुः ३ । केचित्तु किम्पाळादिकतरवो मुखमिष्टपरिणामविरसफलाः ४ । केचित्तूदुम्बरबिल्वादयो निःसारशुभफलाः कण्टकाद्यभावादनाजनकाश्च विद्यन्ते ५ । केचित्तु नारिङ्गजम्बीरकरणादयो मध्यमफलास्तरवोऽनाजनकाश्च ६ । केचित्तु राजादनसहकारप्रियङ्गप्रभृतयः सरसशुभपुष्पफला अपरिगृहीताश्चामी अत्र गृह्यन्ते । परिग्रहयोग्यास्तु नृपवनमध्ये गणयिष्यन्ते ७ । एवं च तारतम्येनाधममध्यमोत्तमतरुवैचित्र्याद् गिरिवणानामपि वैचित्र्यम् । तथा तावसत्ति श्रीऋषभदेवसमयोत्पन्नत्वेनाद्यत्वात्तापसग्रहणं तस्योपलक्षणत्वान्नैयायिकवैशेषिकजैमिनीयसायवैष्णवाद्याश्रिताः
00000000000000
|॥१०२॥
च तारतम्येनाभपुष्पफला अपरिगृहीताणादयो मध्यमफलास्तरमा
Jain Education
a
l
For Private Personal Use Only
IMhilaw.jainelibrary.org