SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Jain Education I 6 तूण देवकिं दाएइ भणति य तुम्भप्पसादेण मए देविकी लत्ति । ततो अणेण स साधू साहरितो तेसिं साहूण सगासंति । एवं तस्स वानरस्स सम्मत्तसामाइअसुतसामाइअचरित्ताचरित्तसामाईआण साहूण अणुकंपाए लाभो जातो । | इतरधा निरयपाउग्गाणि कम्माणि करित्ता णरयं गतो होंतो, तओ चुतस्स चरित्तसामाईअं भविस्सति सिद्धी अ, इतिवैतरणी - वैद्यकथा । तथा एवमेव कश्चिद्वालो मातुरिक्षुदण्डं ययाचे । सापि स्नेहवशात्सम्भावितपित्तोपशमायोपक्रम्य तमानीयादात् । © सोऽपि प्राग्वत्तं किञ्चिदचर्वयन् मातुर्वैयग्र्यादिना प्रोज्झच्च । स्वल्पश्च पित्तोपशमेन शीतीभावस्तस्याभूत् । एवं कश्चिद्भद्रकप्रकृतिर्मिथ्यादृक् श्राद्धकुलोद्भवो वा दैवात् सङ्गतं कुलक्रमागतं वा जैनं गुरुं प्रपच्छ । सोऽपि सम्यक्त्व देशविरत्यादिरूपं वक्ति । प्रतिपद्यते च सः, परमनादृत्या सम्यग्ज्ञानादिनानभिग्रहितया पालयति कदाचिन्मुञ्चत्यपि । एवं स बालवत्तादृग्धर्माराधनादल्पमेव कुकर्म्मपित्तोपशमं तेन शीतिमवत् सुखं च लभते । मनुष्याल्पर्द्धिदेवादिगतिं श्रीगौतम| प्रत्राजितहालिकविसढश्यामलवणिगादिदृष्टान्ताश्चात्र ज्ञेयाः । कश्चिद्धर्मविराधनया तिर्यक्ष्वप्युत्पद्यते, परं सुलभबोधिः स्यात् श्रीमुनिसुव्रतस्वामिबोधिततुरगप्राग्भवश्रेष्ठिवत् इति धर्मस्य प्रथमो भेदः । इति भावितो बालदृष्टान्तः । £6006 अथ कश्चिज्जरी जरादिवशादन्धीभूतः कदाचित्सञ्जातपित्तोद्रेको वैद्यादिवचसा तदुपशमाय सञ्जातेक्षुभक्षणश्रद्ध इक्षु| दण्डं वधूपार्श्वे ययाचे । सा च परगृहागतत्वाज्जरती तत्कार्यसाधनाक्षमा भक्तिहीनत्वात् प्रत्युत तद्वेष्टिकरणोद्विग्नाऽव| ज्ञानादिना वा पश्चादोकस्तटादेरण्डखण्डमानीयार्पयत् । सोऽपि चर्वयन् कटुरसं विभाव्य नायमिक्षुदण्ड इत्यादि वदंस्तयोचेऽत्रत्या इक्षव ईदृशा एव भवन्ति, पित्तोद्रेकादिना भवतां स्वादुविपर्ययप्रतिभासस्तथापि चर्वणे पित्तोपशमो भावीति For Private & Personal Use Only 99900000000000७०००६ www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy