SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ @ @@ @ @ इतिन्यायाजातेक्षुभक्षणश्रद्धः स्निग्धमातृधिया विमातरमिक्षुदण्डं ययाचे, तया निषिद्धोऽपि न विरमति । ततस्तया तत्कदाग्रहोद्वेजितया इक्षुदण्डस्यासन्नस्याभावात्तस्मिन् विशिष्य स्नेहाभावेन विशेषोपक्रमाकरणाच्च तद्विप्रतारणार्थ पश्चादोकस्तटस्थैरण्डेभ्य एरण्डखण्डमेकमादाय तस्यार्पितं, स च तत् किञ्चिच्चर्वयित्या चापलाद्भक्ष्यान्तरलाभे प्रौज्झत् । तच्चर्वणोद्भवश्च तस्य तापोऽपि स्वल्प एव भवति । स च स्वयं स्वल्पशीतोपचाराद्वोपशाम्यतीति । एवं कोऽपि भद्रकप्रकृतिजीवः कुलक्रमागतानभिगृहीतमिथ्यात्वः सम्यग्जिनार्चादानादिपरान् श्राद्धादीन् दृष्ट्वा जातधर्मश्रद्धः सद्गुरुधिया कुलक्रमागतं गुरुं धर्म पृच्छति । सोऽपि लोभमोहादिना शिवाद्य गोदानस्नानादिकं तमुपदिशति । सचानभिगृहीतमिथ्यात्वतया वालवदनाहत्या कदाचित्तं कुरुते कदाचिन्न कदाचित्सम्यग्धर्मान्तराग्यपि अद्विषन् सामग्रीयोगात् कुरुतेऽपि, तथा कश्चिद्भद्रकप्रकृतिः सम्यग्दृष्टिा विमातृसमेन कुटुम्बेनोपदिष्टं एरण्डदण्डसममारम्भादिपापमनाहत्या कुरुते नतिलोभादिनान्तरान्तरा धर्मकृतां यथाशक्त्युपकारादि च इत्येवं पाठान्तरोक्तेरारम्भादिपापभावना, विरतिगुणभावनापि च सर्वदृष्टान्तेषु ज्ञेया । एवं तस्य मिथ्यात्वादिजनितोऽल्पः सुखापनेयश्च कर्मबन्धो भवति, तेन च हीनमनुष्याल्पोत्तमप्रायतिर्यगादिगतिः प्रायः सुलभबोधकश्च भवतीति प्रथमो मिथ्यात्वपापभेदः १। . ___ अत्र च मिथ्यात्वमाश्रित्य गण्डकश्वापदीभूतविष्णुदत्तश्रेष्ठ्यादयो दृष्टान्ताः । आरम्भादिपापमाश्रित्य पुनर्वैतरणीदृष्टान्तो यथा-बारवतीए कण्हस्स वासुदेवस्स दो विज्जा, धन्नंतरी वेयरणी य, धनंतरी अभविओ वेतरणी भवितो। सो साधूणं गिलाणाणं पिएण साहति । जं जस्स काय फासुरण परोवयारेण साहति । जदि से अप्पणो अस्थि ओसहाणि @ 0000000000000000000 @ @ @ @ @ @ @ @ Jain Education Interie For Private & Personel Use Only hinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy