SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ९४ ॥ Jain Education 906 बलभद्रमुनिकथा । यथैष वलभद्रमुनिरबहुश्रुतोऽपि चारित्रोपदेशाभ्यां विरहितोऽपि चातिशयवानभूत्तथाऽन्येऽपि केचि - दतिशयवन्तो हि शासनस्य प्रभावकत्वेन चारित्रादिरहिता अपि स्वस्य परस्यापि च तारका भवन्तीति अतिशयास्तीर्थेनोपमिताः । श्रुतादीना जलाद्युपमितिहेतुस्तु प्राच्यगाथाव्याख्यायां भावित इति । जलफलयुक्ताद्रिवत् पुनः केऽपि गुरवः सम्यक्श्रुतचारित्राभ्यामन्विताः, नोपदेशेनातिशयैश्च अशुद्ध प्ररूपकत्वावस्थसावद्याचार्यवत् ६ । जलच्छायाकलितशैलवत्केऽपि च श्रुतोपदेशद्वयधारिणः शतार्थिश्री सोमप्रभाचार्यवत् ७ । अन्ये पुनर्जलतीर्थालङ्कृताचलवत् श्रुतेनातिशयैश्चालङ्कृता नेतराभ्यां निदानं यथार्ह स्वयं ज्ञेयम् ८ । यथा केsपि गिरयः फलच्छायाभ्यां शोभिता नत्वितराभ्यां | तथा केऽपि गुरवश्चारित्रोपदेशाभ्यामेव विभूषिताः, न ज्ञानातिशयाभ्यां प्रागुक्तोत्सारकल्पिकाचार्यवत् ९ । यथा पुनः केsपि गिरयः फलतीर्थाभ्यां सुभगा नापराभ्यां तथा केsपि गुरवश्चारित्रेणातिशयैश्चालङ्कृताः, न श्रुतोपदेशाभ्यां, वार्द्धप्रव्रजितोग्रविविधाभिग्रहादितपस्तपन चमत्कृतगुणाकृष्टसुरसेव्यमानश्रीयशोभद्रसूरिशिष्यक्षमर्षिवत् श्री हेमसूरिशिष्ययशश्चन्द्रगणिवच्च । तत्सम्बन्धो यथा— श्रीआम्र भटमन्त्रिणा स्वपितुरुदयनमन्त्रिणः श्रेयसे भृगुकच्छे श्रीशकुनिकाविहारोद्धारे निर्मापिते श्रीहेमसूरिपार्श्वात् सविस्तारं प्रतिष्ठोत्सवे च कारिते श्रीकुमारपालनृपे श्रीहेमचन्द्रगुरौ पत्तनादिस| द्वेषु च स्वस्थानं प्राप्तेषु भृगुपुरस्थानस्याभ्रभटमन्त्रिणः कश्चिद्विषयो देवीदोषोऽभूत् । तत्परिचारकजनैः सद्यः श्रीहेमचॐ न्द्रगुरूणां तत्स्वरूपविज्ञप्तिलेखः प्रहितः । तस्मात्तत्स्वरूपं ज्ञात्वा श्रीगुरवो यशश्चन्द्रगणिना सह प्रदोषसमये गगनगत्या भृगुपुरं प्राप्ताः । प्रतिष्ठासमये भोगवल्याद्यदानरुष्टा सैन्धवादिदेवीरनुनेतुं कायोत्सर्गमकार्षुः । ताभिर्देवीभिरवगणना 3000000004 For Private & Personal Use Only उपदेशर० तरंग १५ ॥ ९४ ॥ w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy