SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ पOOOOD40000000000000000 स्पदं नीयमानान् गुरून् दृष्ट्वा यशश्चन्द्रगणिरुदूखले शालितण्डुलान् प्रक्षिप्य मुशलप्रहारान् ददे । प्रथमप्रहारे देवीनां प्रसादप्रकम्पः, द्वितीयप्रहारे देवीमूर्तय एव स्वस्थानादुत्पत्य वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्षेत्युच्चरन्त्यो गुरोश्चरणयोर्नि पेतुः। इत्थं यशश्चन्द्रगणिना मिथ्यादृग्व्यन्तराणां दोषे निरस्ते श्रीआमभटमन्त्री निरामयो जातश्चिरं विविधैर्धर्मकर्मभिजिनमतमुद्योतयामासेति । स एष यशश्चन्द्रतपोधनो बहुश्रुततत्त्वोपदेशाभ्यां रहितश्चारित्रातिशयाभ्यां सहितश्चेति १०।। अन्ये च गिरयो यथा च्छायावृक्षैस्तीथैश्चान्विता नेतराभ्यां तथा केऽपि गुरवः सदुपदेशेनातिशयैश्च शोभिता नेतरा-| काभ्याम् ११ । इति द्विकयोगाः षट् । । अथ त्रिकयोगाश्चत्वारस्तत्र केचन नगा जलेन फलैश्छायाभिश्चान्विताः, तथा केऽपि गुरवः श्रुतेन चारित्रेणोपदेशेन। च सुभगम्भविष्णवः १२ । यथा च गिरयो जलेन फलैस्तीर्थश्चालङ्कृता न च्छायया तथा केचिद्गुरवः श्रुतं चारित्रमतिशयांश्च धारयन्ति नोपदेशमिति १३ । केऽपि च नगा यथा जलच्छायातीथैरलङ्कृता न तु फलैस्तथा केचिन्मुनयः श्रुतेनोपदेशेनातिशयैश्चान्विताः स्युनतु चारित्रेणेति १४ । परे च गिरयो यथा फलच्छायातीर्थैरभिरामा न तु जलेन तथा 21 मुनयोऽपि केचिच्चारित्रोपदेशातिशयैर्विभूषिता न पुनः श्रुतेन १५ । दृष्टान्ता यथास्थानं स्वयमभ्यूह्याः । केचिन्नगाः पुनर्यथा जलेन च्छायावृक्षैः फलवृक्षः समहिमतीर्थेश्च प्रथितकीर्तयो यथा श्रीरैवतार्बुदाचलादयः, तथा केऽपि सुगुरवः श्रुतचारित्रोपदेशातिशयैश्चतुभिरपि जिनप्रवचनस्य प्रभावका भवन्ति, श्रीपादलिप्तसूरियशोभद्रसूरिप्रभृतिवत् १६ । एषु Jain Education Intel For Private & Personel Use Only PMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy