________________
मुनिसुन्दर सू० वि० ॥ ९३ ॥
उपदेशर तरंग १५
POO
तिशयानां मिथ्यात्वोत्सर्पणकपरत्वेन सम्यग्धर्मस्य विघ्नभूतत्वेनातिशयत्वायोगात्, ततस्तेषां श्रुतादिविफलतेति । एवमग्रेऽपि यथाहै भावना कार्या १॥ केऽपि गिरयः पुनर्यथा जलभृतस्तथाविधसरोवरादिमत्त्वात् , न तु फलादित्रयधारिणः। तथा केचिद्गुरवः सम्यक्छुतभृतः केवलं, न तु चारित्रादित्रयभृतः, प्रमादावस्थश्रीशेलकाचार्यवत् । यद्वोपदेशाभावोऽशुद्धप्ररूपकत्वेनापि, ततो ये बहुश्रुता अप्युत्सूत्रप्ररूपका भ्रष्टचारित्राश्च तेऽप्यत्र भङ्गे ज्ञेयाः २। केचिच्च यथा फलभृतः कूष्माण्ड्यादिवल्लीवनमण्डितत्वात् न तु जलादित्रयभृतः, तथा केचिच्चारित्रिणः परं न श्रुतज्ञानादित्रयभृतो माषतुषादिवत् ३ । अन्ये तु यथा च्छायोपेताश्छायातरुभिरशोकाद्यैरलङ्कतत्वात् न तु जलादित्रयधारिणः, तथा केऽप्युपदेशान्विता न तु श्रुतज्ञानादित्रयास्पदम्, अङ्गारमईकाचार्यवत् । तस्य मिथ्याक्त्वेन तदधीतस्य श्रुतत्वायोगात्तक्रियायाश्चारित्रत्यायोगाच्चेति ४ । अन्ये पुनः शिखरिणस्तीर्थेन विभूषिताः परं न जलादित्रयधारिणः, तथा केऽपि गुरवोऽतिशयैः कैश्चिदलता न तु श्रुतादित्रयभृतः श्रीयशोभद्रसूरिशिष्यबलभद्राभिधक्षुलवत् । तत्कथा यथा-पल्लीपुर्या श्रीयशोभद्रसूरेराचार्यपदावसरे यावज्जीवमष्टाभिः कवलैराचाम्लं विधेयमित्यभिग्रहं स्वीकृतपूर्विणोऽन्यदा वपुश्चिन्तायै व्रजतो वर्षागमे सूर्यभवनान्तःप्राप्तस्य तपःप्रभावात् सूर्यः प्रत्यक्षीभूय वरं वृणुष्वेत्युक्तावनिच्छतः स्वोपाश्रयप्राप्तस्य विप्ररूपेण बलात् सर्वजीवावलोकनाञ्जनकुम्पिकां दिव्यां पुस्तिकां चार्पयत् । सूरेः पुस्तिकावाचनादेवाम्नायाः पठिताः सिद्धा जाताः। तत "एता विद्याः पाश्चात्यानामयोग्या" इति विमृश्य बलभद्रमुनिमाकार्य पुस्तिकेयं न च्छोट्येति दृढमुक्त्वा तद्धस्तेन तां सूर्यालये सूरयस्तेऽमोचयन् । बलभद्रेण तु गुरुनिषिद्धेनापि पुस्तिका च्छोटिता, आम्नायपत्रत्रयं कर्षितम् ।
POOOOOOOOOOOOOOOOOO
N GOOGO
॥१३॥
Jain Education
For Private Personel Use Only
jainelibrary.org