________________
Jain Education In
॥ अथ पञ्चदशस्तरङ्गः ॥ अथ नगनिदर्शनेन गुरुस्वरूपं निरूपयति
जल १ फल २ च्छाया ३ तित्थ ४ पिणआ नगा सोल जह तहा गुरुणो ।
इगदुतिचउजोगेहिं, सुअ १ चरणु २ वएस ३ इसएहिं ॥ १ ॥
पघटना प्राग्वत्, नवरं तीर्थ समहिमश्रीजिनप्रासादादिरूपं श्रुतादीन्यत्र पदानि चत्वारि, चतुर्णा च प्रस्तारे षोडश रूपाणि स्युः । तत्र चतुष्कयोग एकः, त्रिकयोगाश्चत्वारः, द्विकयोगाः षट्, एककयोगाश्चत्वारः, चतुष्टयाभावश्च षोडश इति । अथैतद्भाव्यते पश्चानुपूर्व्या-यथा च केचिन्नगा जलेन फलेन च्छायया तीर्थैश्च विरहिता इत्यतो निजाश्रितानां केवलक्लेशप्रदाः स्युः, तथा केचिद्गुरवः श्रुतेन चारित्रेणोपदेशेनातिशयैश्च विरहिताः स्वाश्रितानां तारणासमर्थत्वेन कुमार्गोपदेशनात् प्रत्युत भवान्धौ निमज्जकत्वेन च क्लेशैकफलदायिनो बौद्धशैवादिदर्शनिवत् । यतस्तेषामागमा न श्रुतमसर्वज्ञ प्रणीतत्वाद्युक्त्तयक्षमत्वाच्च । तत्प्रणेतॄणाम सर्वज्ञत्वं च रागद्वेषादिमत्त्वात् सिद्धमेव । तत्प्रणीतागमेष्वपि च यत्कि श्चियुक्तियुक्तं दृश्यते तत्सर्व जिनागमसमुद्रस्यैव पृषताः । तदुक्तं श्रीजिनधर्मावात्यनन्तरं लब्धजैन शैवादिसकलदर्शनसमय स्वरूपेण धनपाल पण्डितेन श्रीऋषभदेवस्तुतौ – “पावंति जसं असमंजसा वि, वयणेहिं जेहि परसमया । तुह समयॐ महोअहिणो, ते मंदा बिंदुनिस्संदा ॥ १ ॥ " न च तेषां चारित्रोपदेशौ सम्यग्ज्ञानमूलत्वात्तयोः, नाप्यतिशयास्तेषां तदीया
For Private & Personal Use Only
999996000
ainelibrary.org