________________
उपदेशर० तरंग १४
मुनिसुन्दरकानिचिद्वनानि पुनर्यथा फलच्छायाभिर्विरहितानि स्युः, जलाश्रयरहितकरीरादिवनवत् तथाविधधत्तूरकार्कादिवनवद्वा । सू० वि०करीरादिषु कानिचित् फलानि स्युः परं न तथार्हाणीति तदविवक्षेति । तथा केचिद्गुरवश्चारित्रज्ञानोपदेशैस्त्रिभिरपि
विकलाः परतीर्थिकर्षिवत् । तेषां मिथ्यात्वव्यामूढत्वेन तत्तपसां तदीयवेदादिशास्त्राणां तद्धर्मोपदेशानां च चारित्रज्ञानो-100 ॥९२॥
पदेशत्वायोगादिति ८ । एतेषु चाष्टसु भेदेषु सप्तमो भङ्गः शुद्धः परे त्वशुद्धाः, तेष्वपि सम्यग्ज्ञानशुद्धोपदेशकत्वाभ्यां कलिता भेदाः कारणविशेषेणापवादत आचरणीया अपि, न तु मुख्यवृत्त्या । यदुक्तम्-चारित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः । निर्मलजलपरिपूर्णः, कुलजैश्चण्डालकूप इव ॥ १ ॥ इति तत्त्वम् ।
इति विविधनिदर्शनैर्निबुध्य, प्रकटतरं गुरुगोचरं विचारम् ।
भवरिपुविजयश्रिये यतध्वं, गुरुवरयोगमवाप्य सद्विवेकाः ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेऽशे चतुर्दशस्तरङ्गः॥
0000000000000000000000
தவயோதிகருகருகா
|॥१२॥
Jan Educaton Internationa
For Private & Personel Use Only
jainelibrary.org