________________
1000000
बहुश्रुतस्य बहुश्रुतगुरुनिरपेक्षस्य धर्मदेशनापि कर्तुं न कल्पते । यदुक्तम्-किं इत्तो कहयरं, सम्म अणहिगयसमय10 सब्भावो । अन्नं कुदेसणाए, कट्ठयरागंमि पाडेइ ॥१॥ बहुश्रुतगुरुसमीपे निश्चितं धर्मविचारादि पुनरुपदिशतामबहु
श्रुतानामपि बहुश्रुतपर्युपासिनां देशनाधिकारोऽपि सम्भाव्यते इति षष्ठः प्रकारः ६ । कान्यपि वनानि पुनर्यथा फलजलच्छायाभिरामाणि, तादृग्जलाशयोपेतसदाफलसहकारवनवत् । तथा केचिद्गुरवश्चारित्रज्ञानोपदेशैस्त्रिभिरपि निर्निभं सौभाग्यं भजन्ति, श्रीवज्रस्वाम्यादिवत् । अत्र यथा तरूणां सारता फलेन तथा गुरूणां सारता चारित्रेणेति फलेनोपमितं चारित्रम् । यथा च फलस्याप्युद्दमो दुमेषु जलप्रभवः तथा जीवेषु चारित्रलाभोऽपि ज्ञानपूर्वक एव । तथा |चागमः-"पढमं नाणं तओ दया" इत्यादि । यद्वा फललाभेऽपि यथा जना जलं विना सीदन्त्येव, तथा चारित्रलाभेऽपि
जीवाः सम्यग्ज्ञानं विना चारित्रस्य पदे पदे कलुषीकरणात्सीदन्तीति जलेनोपमितं सम्यग्ज्ञानम् । तच्चेह प्रस्तावादहुश्रुता|वगाहरूपं ग्राह्यम्, अबहुश्रुतस्योत्सर्गापवादाद्यनभिज्ञत्वेन पदे पदे स्खलनसम्भवात् । तदुक्तम्-अप्पागमो किलिस्सइ, जइ वि करेइ अइदुकरं तु तवं । सुंदरबुद्धीइ कयं, बहुयंपि न सुंदर होइ॥१॥ किञ्च-अबहुस्सुओ तवस्सी, विहरिउ
कामो अजाणिऊण पहं । अवराहपयसयाई, काऊण वि जो न याणेइ ॥२॥ इति । यथा च तरूणां छाया बहुपथभ्रहमश्रान्तानां विश्रमार्थमागतानां पथिकानां तापादिशान्तिशैत्यसुखानन्दहेतुः, तथा दुरन्तभवाटवीबम्भ्रमणखिन्नानां
कषायदवानलदवथुव्यथितानां भव्यानां मनोविश्रामार्थमागतानां सद्गुरुप्रणीता सम्यग्धर्मदेशना भवभ्रमणजश्रमतापाद्युपशान्ति सम्यक्त्वादिपरिणामरूपं परं शैत्यं विषयादितृष्णाद्युपशमं परानन्दसुखं च पुष्यतीति च्छाययोपमितेति ।
000000
0
0000
JanEducation idol
For Private Personal use only
hainelibrary.org