________________
ஒரு
अथेयमेव चतुर्भङ्गी मुनीनाश्रित्य वाच्या प्राग्वदेव,नवरं तेषां ज्ञानादिगुणैः श्रीगुर्वाज्ञापरायणत्वान्तर्विनयचातुर्यादिभिश्चान्तःसारता, तत्तत्तपःक्रियानुष्ठानादिभिर्बहिर्विनयादिभिश्च बहिःसारता प्ररूपणीया । ज्ञानादिगुणेष्वन्तर्भावेऽपि विनयस्य पृथक्प्रतिपादनं तस्यैव सर्वगुणमूलत्वप्रतिपादनार्थम् । स च विनयः पूर्वगाथायां प्रथितोऽत्रापि ज्ञेयः । यद्वार ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयमूलभेदात् सप्तधा। तत्र ज्ञानमाभिनिवोधिकादि तदेव विनयो, ज्ञा-10 नस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः । उक्तं च-भत्ती तह बहुमाणो, तदित्थाण सम्मभावणया। विहिगहभासोवि य, एसो विणओ जिणाभिहिओ ॥१॥ एवं दर्शनविनयोऽपि दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो । द्विधा । सक्कारब्भुटाणे, सम्माणासणअभिग्गहो तह य । आसणमणुप्पयाणं, किइकम्मं अंजलिगहो अ॥२॥ इंतस्स
गणच्छणया, ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुवयणं, एसो सुस्प्लसणाविणओ ॥३॥ इह सत्कारः स्तवनववन्दनादि, अभ्युत्थानं वन्दनार्हस्य दर्शनादेवासनत्य जनं, सन्मानो वस्त्रपात्रादिपूजनं, आसनाभिग्रहः पुनस्तिष्ठत आद-l
रेणासनानयनपूर्वकमुपविशतात्रेति भणनम् , आसनानुप्रदानं त्वासनस्य स्थानात् स्थानान्तरसञ्चारणं, कृतिकर्म द्वाद16 शावर्तवन्दनक, शेषं सष्टम् । उचितक्रियारूपोऽयं दर्शने शुश्रूवणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियानि
वृत्तिरूपः पञ्चदशभेदः । आह च-तित्थयर १ धम्न २ आयरिय ३, वायगे ४ थेर ५ कुल ६ गण ७ संघे ८ संभोगिअ ९ किरिआए १०, मइनाणाईण य १५ तहेव ॥४॥ साम्भोगिका एकसामाचारिकाः क्रियास्ति परलोकोऽस्त्या-1
SSRஇருரு
10000000000000000000000
Jan Education
For Private Personal use only
Sr.jainelibrary.org