SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग १३ - मुनिसुन्दर ॥ अथ त्रयोदशस्तरङ्गः॥ सू० वि०6 ॥ पुनः श्रीगुरुयोग्यायोग्यत्वं दृष्टान्तसाम्यान्मुनिश्रावकसामान्यजीवानां चातुर्विध्यं चाह निंब १ पियालु २ नालियर ३-कयलि ४ फलसन्निहा बंहिं अंतो। चउहा असारसारा, गुरु १ मुणि २ सावय ३ जिआ ४ हुँति ॥१॥ पदघटना सुगमा, भावना-यथा निम्बफलानि बहिरन्तश्चासाराणि, बहिस्त्वचोऽन्तः कुलिकस्य च तादृक् शुभरसा-! कादिरहितत्वेनासारत्वात् । हेतुभावनाग्रेऽप्येवमेव कार्या । तथा केचिद्गुरवो द्विधाप्यसारा, अन्तर्ज्ञानादिगुणरहितत्वेन बहिस्तु तादृग्देशनासौभाग्यवादादिलब्धिविविधसिद्धिप्रसिद्धिमत्ताविकलत्वेनेति । यथा च प्रियालो राजदनस्य फलानि बहिःसाराणि त्वचस्ताहक्छुभरसत्वात् , अन्तस्त्वसाराणि कुलिकत्वात् । तथा केचिद्गुरवोऽपि बहिःसारास्ताहग्देशनासौभाग्यादिभृत्त्वेन, अन्तः पुनरसारा ज्ञानादिगुणविकलत्वेनेति । एवं यथास्थानमग्रेऽपि हेतुयोजना कार्या । यथा च नालिकेरफलानि बहिरसाराणि उपरि नीरसजटाकरण्टकादिमत्तया, मध्ये तु तादृग्गोलवत्त्वात्साराणि ॥ तथा केचिद्गुर-1100 वोऽपि । किञ्च-यथा कदलीफलानि द्विधापि साराणि, उपरि स्वल्पत्वगन्तरितशुभरसबहुदलत्वेन अन्तः कुलिकादिरहि- तत्वेन च । तथा केचिद्गरवोऽपि । दृष्टान्ताः स्वयं ज्ञेयाः। पूर्वगाथायां केचिदतिदेशतः प्रतिपादिता इहापि ज्ञेयाश्च । हायोग्यायोग्यत्वभावनाऽपि प्राग्वदिहाप्यवसेयेति । ஒருப்பார்கருவி ॥८॥ JainEducation Hap For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy