________________
मुनिसुन्दर सू० वि०
॥ ८९ ॥
999990
त्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादि प्ररूपणात्मिका । अत्र भावना " तीर्थकराणामनाशातनायां वर्त्ति तव्यम् ” इत्येवं सर्वत्र भाव्यम् । चारित्रविनयस्तु सामाइयाइ चरणस्स सद्दहणं १ तहेव काएणं संफासणं २ परुवण ३ मह पुरओ सबसत्ताणं ५ ॥ मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिरूपाः, लोकानामुपचारो व्यवहारस्तेन स एव वा विनयः सप्तधा, अभ्यासवर्त्तित्वं श्रुताद्यर्थिनाचार्यादेः समीपे आसितव्यम् १ । परच्छन्दोऽनुवर्त्तित्वं पराभिप्रायानुवर्त्तित्वम् २ | कार्यहेतोः श्रुतप्रापणादिकार्यहेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण तस्य विनये वर्त्तितव्यम् ३ । कृतप्रतिकृतिता कृते भक्तादिनोपचारे प्रसन्नाः श्रीगुरवः प्रतिकृतिं प्रत्युपकारं श्रीसूत्रादिदानतः करिष्यन्ति, न नाम निर्जरैवेति भक्तादिदाने यतितव्यम् ४ । आर्तगवेषणता आर्त्तस्य दुःखार्तस्य • गवेषण मौषधादेस्तदेवार्तगवेषणता पीडितस्योपकारकरणमित्यर्थः ५ । देशकालज्ञता अवसरज्ञता ६ । सर्वार्थेष्वप्रतिलोमताऽऽनुकूल्यम् ७ । इति पाक्षिकसूत्रवृत्तौ । अत्र च भक्तिबहुमानादिरन्तर्विनयः, सत्कारसन्मानादिः पुनर्वहिर्विनयः । एभिर्ज्ञानाद्यैर्विनयाद्यैश्चान्तर्गुणैः सद्भिरसद्भिश्चान्तः साराऽसारत्वे तपः क्रियाद्यैर्बहिर्विनयाद्यैश्च बहिर्गुणैः सद्भिरसद्भिश्च सारासारत्वे मुनीनाश्रित्य स्वयं भावनीये इति । श्राद्धानप्याश्रित्य सेयं चतुर्भङ्गी कर्तव्या प्राग्वत् । नवरं श्राद्धेषु सम्यक्त्वादिगुणैरन्तःसारता, धनप्रभुमानसुपात्रादिदानशासनप्रभावनादिपुण्यकर्मभिर्वहिर्विनयादिभिश्व बहिःसारत्वं वाच्यम् । सामान्यतो जीवानध्याश्रित्य प्राग्वदेवेयं चतुर्भङ्गी योजनीया । नवरं तत्र देवगुरुभक्तिसत्यसाहसविवेकवि
Jain Education International
For Private & Personal Use Only
उपदेशर० तरंग १३
॥ ८९ ॥
Jainelibrary.org