SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ गता गुरवोऽपवादात्ताहक्सुगुरुयोगाद्यभावे प्रागुक्तहेतोः श्रयणीया अपीति । यथा च द्वितीयोऽर्णवः सर्वत्र समावगाहत्वेन सहस्रयोजनगाम्भीर्यः प्रवररत्नपूर्णतलश्चेत्यन्तःसारः, कल्लोलादिवर्जितत्वाद् बहिरसारश्च । लवणोदवर्ज शेषस-1 मुद्रेषु हि पातालकलशाद्यभावेन कल्लालवेलागजिप्रभृतयो न भवन्तीति । तथा केचिद्गुरवः सम्यग्ज्ञानादिगुणवत्स्ये-15 नान्तःसाराः। आत्मैकतारणपरत्वेन देशनादिश्वनादरा इति वहिरसाराश्च, बहिर्लोकानां प्रतिबोधाद्यकरणाद् बहिर्जनेषु महिमप्रसिध्याद्यनवाप्तेश्च । यथा श्रीमदाचार्यमहागिरिसूरयः प्रत्येकबुद्धादयश्चेति तृतीयो भङ्गः । योग्या श्चैते पर स्वात्मैकतारका इति । यथा च प्रथमोऽर्णवस्तथाविधगाम्भीर्यरत्नपूर्णत्वाभ्यामन्तः सारः, कल्लोलवेलागर्जिप्रभृत्याऽऽडम्बरभृत्तया बहिरपि सारश्च । तथा केचिद्गुरवः सम्यग्ज्ञानादिगुणवत्तयाऽन्तःसाराः, देशनाचातुर्यजल्पप्रागल्भ्यक्षी-10 रानवादिलब्धिविद्यामन्त्रतन्त्रयोगादिशक्तिमत्तया बहिरपि साराश्च । श्रीवज्रस्वामिश्रीसिद्धसेनदिवाकरश्रीपादलिप्तगुरुप्रभृतिवत् । स्वपरयोस्तरणतारणसमर्थत्वादेकान्तेनैते योग्या इति चतुर्भङ्गः ४। इति श्रीगुरूनाश्रित्य चतुर्भङ्गी भाविता। श अथैव चतर्भङ्गी शिष्यानण्याश्रित्य भाव्या प्राग्वत् । नवरं दार्शन्तिकोको गुणवागादिभिरित्येतदित्थं व्याख्येयं । लातथाहि-गुणा हार्दभक्तिविनयचातुर्यादयः वागादयो वाड्मनःकाया औपचारिकविनयानुसारिणः, तैर्यथाक्रममन्तः। सारता बहिःसारता (च) व्याख्येये । तत्रौपचारिकविनयो यथा-अह उवयारिओ पुण, दुविहो विणओ समास ओ होइार पडिरूवजोगजंजण, तहय अणसायणा विणओ ॥१॥ पडिरूवो खलु विणओ, काइअजोगे अ वायमाणसिओ । अहचउविहदुविहो, परवगा तस्सिमा होइ॥२॥ अब्भुटाणं अंजलि, आसगदाणं अभि गहकिई अ।सुस्लूसणअणुगच्छणसंसा TCCOOCCCCCCCCCCCCCCC இகதிருருருருரு - Jain Education a l For Private Personal Use Only Jan.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy