________________
कलशा यथा मध्ये पिधानेऽपि पयोभृतः, तथा केचिद्गुरवः सम्यग्ज्ञानचारित्रादिगुणभृतोऽथ च तादृग्देशनासौभाग्य-का भाजो यथा श्रीवज्रस्वामिप्रभृतयः, श्रीमदाचार्यसुहस्तिसूरिश्रीबप्पभट्टिसूरिश्रीहेमचन्द्रसूरिप्रमुखाश्च । एतेष्वाद्यास्त्रयोsप्ययोग्याः, तुरीयभङ्गगता एव गुरवः सेव्याः । सुगुरुयोगाऽभावादिरूपे कारणे चापवादपदेन द्वितीयभङ्गस्था अपि प्राग्गाथोक्तयुक्त्या सेव्या इति तत्त्वम् ।
इतिचतुर्विधकुम्भनिदर्शनाद, गुरुचतुर्विधतामवगत्य भोः ।
भजत शुद्धगिरं सुगुरुं सदा, यदि वुवूर्षत मोहजयश्रियम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेऽशे एकादशस्तरङ्गः ॥
CERTOOD
Jain Education
For Private & Personel Use Only
jainelibrary.org