________________
रचत्यवासिनोऽभूवन अकं वारात्रिक शापि कुर्वे । तदेवं त,
oll
पिधाने मद्यधारिणः, तथा केचिज्ज्ञानादिगुणभृतः परं प्रागुक्तवद्देशनासौभाग्यं न विभ्रति, प्रमादादिना रागद्वेषादिकारकाणैर्वा, तत्र रागद्वेषाद्याश्रित्यात्र भङ्गे सावद्याचार्यदृष्टान्तः । तथाहि-अस्याश्चतुर्विंशतिकाया अतीतायामनन्ततमचतुविशतिकायां सप्तहरततनुर्धर्मनामा चरमतीर्थकरो बभूव । तत्तीर्थे सप्ताश्चर्याण्यभूवन् । तत्रासंयतपूजायामनेके श्राद्धेभ्यो। गृहीतद्रव्येण स्वस्वकारितचैत्यवासिनोऽभूवन् । तत्रैको मरकतच्छविः कुवलयप्रभनामाऽनगार उग्रविहारी महातपस्वीशिष्यगणवृतः समागात् । तैर्वन्दित्वोक्तम्-अत्रैक वारात्रिक चतुर्मासकं तिष्ठ, यथा त्वदाज्ञया अनेके चैत्यालया। भवन्ति । कुर्बस्माकमनुग्रहम् । तेनोक्तम्-सावधमिदं नाहं वाग्मात्रेणापि कुर्वे । तदेवं तेन भणता तीर्थकरनामका - जितमेकभवावशेषीकृतश्च भवोदधिः। ततस्तैः सर्वैरेकमतं कृत्वा तस्य " सावधाचार्य” इति नाम दत्तम् । तथापि तस्येषदपि तेषु न कोपोऽभूत् । अन्यदा तेषां लिङ्गमानप्रवजितानां मिथ आगमविचारो वभूव, यथा-श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति, पतितानि च समारचयन्ति, अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः। केऽप्याहुः-संयमो मोक्षनेता तावत् । केचिदूचुः-प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणयैव मोक्षगमनम् । एवं तेषां यथेच्छं प्रलपतां विवादे अन्य आगमकुशलः कोऽपि नास्ति, यो विवादं भनक्ति । सर्वैः सावधाचार्य एव प्रमाणीकृतः । आकारितो दूरदेशात् । स सप्तमासैविहरन् समागात् । एकयाऽऽर्यया श्रद्धावशात् । प्रदक्षिणीकृत्य झटिति पादयोर्मस्तकेन सङ्घयन्त्या ववन्दे, दृष्टस्तैर्वन्द्यमानः । अन्यदा तेन तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथपञ्चमाध्ययनस्य व्याख्याने आगतेयं गाथा-जत्थित्थीकरफरिसं, अंतरिअं कारणेवि उप्पन्ने । अरहावि
ADAR
उ.१५
Jain Education
a
l
For Private & Personal use only
w
wjainelibrary.org