SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ८४ ॥ Jain Education In ॥ अथ एकादशस्तरङ्गः ॥ पुनर्भङ्गन्तरेण गुरुगतयोग्यायोग्यत्वमाचष्टे जह मज्झपिहाणेसुं, पयमज्जेहिं हवन्ति चउ कलसा । नाणाइअगुणदेसण - सामत्थे (सोहग्गे ) हिं तहा गुरुणो ॥ १ ॥ यो दुग्धं प्रस्तावात्कामधेन्वादिसम्बन्धि, मद्यं मदिरा, ताभ्यां मध्ये पिधाने च वर्त्तिष्णुभ्यां यथा चत्वारः कलशा | भवन्ति । एवं ज्ञानादिगुणदेशना सौभाग्याभ्यां गुरवोऽपि 'तहत्ति' तथा चत्वारो भवन्तीत्यर्थः । अत्र ज्ञानादयो गुणा | देशना सौभाग्यं च पयसोपमितं, ज्ञानादिगुणप्रतिपक्षभूतं कुज्ञानकुचारित्रादि चारित्रादिविनाशहेतवः प्रमादाश्च मद्येनोपमितानि, विवेकचैतन्यविलोपहेतुत्वात् । देशनाविषयमचातुर्यमपि मद्येनोपमितं, श्रोतॄणां मिथ्यात्वादिव्यामोहप्रवर्द्धकत्वाॐ दिति । ततश्च यथा केचित्कलशा मध्ये पिधाने च मद्यभृतस्तथा केचिद्गुरव आलम्बनं विनैव सततं बहुतरप्रमादसेवितया कुचारित्रिणी देशनायामप्यचातुर्यभृतश्च यथा तथाविधाः पार्श्वस्थादयः । यथा मरीचिः कपिलं प्रति “कविला इत्थंपि इहयंपि " इत्यादिदेशनाकृत् १ । यथा च केचित् कलशा मध्ये मद्यभृतः पिधाने च पयोभृतः, तथा पुनः केचिदुखः प्रागुक्तवत् प्रमादपरा एव; परं देशनासौभाग्यभृतः, यथा तादृशाः केचित् संविग्नपाक्षिकादयः, देशनायाः © सौभाग्यं चोत्सूत्रवर्जनेन सम्यक्सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम् २ । यथा च केsपि कलशा मध्ये पयोभृतः परं For Private & Personal Use Only उपदेशर ० तरंग ११ ॥ ८४ ॥ Cinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy