________________
Jain Education Inter
9000000
9000000००००००००
सूत्रमचालयत् । ततः स्पष्टतरं व्याख्यानयद्विप्रः । पुनस्तच्चालिते सूत्रे, पुरोधा रोषतोऽखिलान् । छात्रान् विसृज्य पुत्रं स्व- माकृष्य बहिरुक्तवान् ॥ १ ॥ रे समुद्रसमं शास्त्रं, तरित्वा गोष्पदोपमे । श्लोकेऽतिसुगमार्थेऽस्मि – न्नित्थं मूढः कथं भवान् ? ॥ २ ॥ सुतोऽप्यूचे ततस्तात !, भवतेह गतित्रयम् । वित्तस्य वर्णितं तत्तु, विचारे मे न पूर्यते ॥ ३॥ यतः - आयासशतलब्धस्य, प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य, दानमन्या विपत्तयः ॥ ४ ॥ तच्च सर्वोत्तमं पात्रे, दयाधर्म्माय दुःखिते । याचके कीर्त्तिपोषाय, स्नेहपोषाय बन्धुषु ॥ ५ ॥ भूतादौ विघ्ननाशाय, वैरघाताय वैरिषु । औचि त्येन नृणां दत्तं दानं न क्वापि निष्फलम् ॥ ६ ॥ भोगेन केवलं सौख्य- मैहिकं क्षणिकं भवेत् । लोकद्वयविनाशाय, तस्य नाशस्तु निश्चितम् ॥ ७ ॥ पुरोधास्तन्निशम्यास्य, विचारचतुरं वचः । मुदा हृदि न माति स्म, गत्वा चाख्यन्महीभुजे ॥ ८ ॥ नृपोऽप्याह मुदा भद्र !, विवेकः सोऽयमुद्गतः । पूरयिष्यति तेनाऽसौ मम ते च मनोरथम् ॥ ९ ॥ अहो ! विचारगाम्भीर्य -महो ! अस्याद्भुता मतिः । उपाध्यायं च शास्त्रं च याऽतिक्रम्य प्रवर्त्तते ॥ १० ॥ तत्किश्चित् खन्यमानस्य, यथा कूपस्य कस्यचित् । नालमुद्रियते येन, खनकः प्लाव्यते जलैः ॥ ११ ॥ तथा च्छात्रस्य कस्यापि, शिष्यमाणस्य किश्चन । उन्मीलति तथा ज्ञानं, येन विस्माप्यते गुरुः ॥ १२ ॥ तत्तं गजेन्द्रमारोप्यात्रानय, सुमतीति नाम च तस्याऽस्तु । ततो नृपप्रहितगजेन्द्रारूढं तं महद्धर्ज्या विप्रो नृपसौधमनैषीत् । राजा च सम्मुखागमनादिसत्कार पूर्व पौरोहित्ये तं नियोज्य व्यस्राक्षीत् । ततः स राज्ञा पूजित इति लोकैरप्यपूज्यत । अन्यदा राजा विवेकं परीक्षितुं तं जीवादिविचारान् पप्रच्छ यथास्थं तदुक्तं विचारं श्रुत्वा मुदितस्तं सर्वत्रारखलितप्रचारं कृतवान् । अन्यदा देवतादिष्ट -
For Private & Personal Use Only
helibrary.org