________________
00000000000000000000000
இருருடு
दिस्थूलदोषाणां मध्यात्पुनरेकस्यापि दोषस्य समग्रगुणदोषीकरणसमर्थत्वात्तेनैकेनापि दूषिता जीवाः प्रथमभङ्गपातिन एवेति २ । केचिच्चाल्पदोषा बहुगुणाश्चेति प्रौढसरःसदृशा यथा श्रीकुमारपालनृपादयः । कश्चित्पुनरेकोऽपि गुणः सुबहूनपि दोषार लुम्पतीति तादृशेनैकेनापि गुणेनालङ्कताः सुबहुदोषा अपि बहुगुणा अल्पदोषाश्च ज्ञेयाः, श्रीकुमारपालनृपवदेव सुमतिवच्च । तथाहि अन्यदा सर्वावसरस्थितेन राज्ञा श्रीकुमारपालेन आलिङ्गनामा वृद्धः प्रधानपुरुष इत्यपृच्छयत यदहं श्रीसिद्धसेननृपतेहीनः समधिको वा ? तेन अच्छलप्रार्थनापूर्व प्रोचे-" सिद्धनृपतेरष्टनवतिर्गुणा द्वौ दोषौ, स्वामिनस्तु द्वौ गुणौ अष्टनवतिश्च दोषा" इति । तद्वाक्यादनु दोषमये आत्मनि विराग दधानो यावच्छुरिकायां चक्षुः क्षिपति, तावत्तदाशयवता तेनेति व्यज्ञपि-श्रीसिद्धनृपतेरष्टनवतिर्गुणाः सङ्घामासुभटतास्त्रीलम्पटतादो-16 पाभ्यां तिरोहिताः । कार्पण्यादय भवद्दोपास्तु समरसुभटतापरनारीसहोदरतागुणाभ्यामपह्नता इति तद्वचसा स श्रीपृ
थ्वीनाथः स्वस्थानावस्थस्तस्थौ इति ॥ ol अथ श्रीसुमतिकथा प्रथ्यते तथाहि-श्रीपुरे श्रीषेणनृपः, तस्य पुरोधाः सोमः, स पुत्राभावादू दुःखितः । अन्यदा
राज्ञाऽभाणि-" तव पुत्राऽभावो यथा मां बाधते न तथा त्वम् ” यतः-नियूढोऽयमियत्कालमावयोरन्वयक्रमः। अतः परं मत्सुतस्य, कः पुरोधा भविष्यति ॥१॥पुराधाः प्राह-किं परायत्ते वस्तुनि चिन्तया । जीवितं सन्ततिव्यं, दैवायत्तमिति त्रयम् । नृपोऽजल्पदुपायोऽस्ति, वैवस्याप्यनुकूलने ॥१॥ ततः स्वां कुलदेवीमाराधयेति । सतः पुरोधाः “पुत्रदानप्रसादं यदा करिष्यति तदा भोक्ष्वे" इति कृताऽभिग्रहः कुलदेवीमारराध । ततस्तृतीयेऽह्नि
கருCEO
JainEduca
For Private Personal use only