SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ८१ ॥ Jain Education Int 00000 अथैषैव चतुर्भङ्गी सामान्यतो जीवानाश्रित्य भाव्यते— तत्र जीवानां दोषा ब्रह्मस्त्रीभ्रूणादिहत्याकारित्वकृतघ्नत्व| विश्वासघातित्वासत्यभाषित्वस्तेनत्वकुशीलत्वपरद्रोहित्वाभक्ष्यापेयागम्यादिप्रसङ्गित्वस्वकुलविरुद्ध राजविरुद्धादिकारित्वदेवगुरुद्रव्याद्यपहारित्वादयः स्थूलाः, यत एतेषामन्यतर एकोऽपि दोषः सर्वानपि गुणान् विफलीकरोति । अमेध्यलेश इव निर्मलजाह्नवीजलपूर्ण कलशं तथा दोषकृतो मनुजानिहापि ज्ञातिपङ्क्तिबहिष्करणनृपनिग्रहेन्द्रियच्छेदार्थहानिदेशत्याजनकुष्ठादिरोगादिदुःखानि प्रापयति प्रेत्य पुनर्घोरनरकदुःखानीति । किञ्चिन्निर्दयत्वक्रोधमानमायालोभमदमत्सरकापण्यक्रूरत्वकुव्यवहारादयश्च प्राच्येभ्यो लघवः, गुणास्तु सदयत्वसत्यनिर्लोभ त्वक्षमादमाऽऽर्जवमार्दवदेव भक्तिगुरुभक्तिशी| लसन्तोषविवेकविनय विशेषज्ञत्वगाम्भीर्यचातुर्यौदार्यादयः, एतेषु च शीलसत्यौचित्यदानादयः स्थूला, यतस्तदन्यतर एकोऽपि दोषशतान्यप्यपनयति । यदुक्तम् - औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यप|रिवर्जितः ॥ १ ॥ किञ्च - एकस्यैव विवेकस्य, तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि, सिंहस्येव मतङ्गजाः ॥ १ ॥ अपि च- पाषाणोऽपि विवेकवर्जितवपुश्चिन्तामणिगयते, शङ्खोऽप्यस्थि विचेतनं जडतनुः कल्पद्रुमः पूज्यते । | अज्ञा गौरपि गौरवेण गुरुणा श्रीकामधेनुर्जने, दातुर्दोषशतान्यपास्य कुरुते सर्वोऽपि सर्वादरम् ॥ १ ॥ इत्यादि । ततश्च | केचिन्नरा अमेध्योपमब्रह्महत्यादिस्थूलदो पैरितरजलोपमेतरदोषैश्च कलुषितजलोपममनोवाक्कायव्यापारधारिणः सततमिति पुरनिर्द्धमनोपमा, गोहत्यादिकृज्जातिवहिष्कृतविप्रादिवत् १ । अन्ये पुनर्नरा बहुदोषा अल्पगुणा इत्यभिनववृष्टिजलपूर्णलघुसरस्तुल्याः । एतद्भङ्गपातिन एव प्रायः सर्वे जनास्तरतमभावेन तथैवानुभूयन्ते न निदर्शनमर्हन्ति, प्रागुक्तब्रह्महत्या - For Private & Personal Use Only उपदेशर० तरंग १० ॥ ८१ ॥ Painelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy