SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte निष्ठत्वामर्मवैधित्वहृदयङ्गमत्वनिःसंशयत्वादयः, तात्स्थ्यात्तद्व्यपदेश इतिन्यायाच्च, पुरनिर्द्धमनादीनां जलमत्र दृष्टान्तीकार्यम् । ततश्च केषाश्चिदगीतार्थानां रागद्वेषादिविवशमनसां वा देशना तथाविधामेध्योपमोत्सूत्रप्ररूपणेनापरतादृग्मॐ लोपमसभाद्यनुचितभाषणादिदोषगणेन च केवलेन दूषितेति पुरनिर्द्धमनजलतुल्या । केषाश्चिदेशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा, परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता; साऽपि पुरनिर्द्धमनजलतुल्यैव | अमेध्यलेशेन निर्मलज| लमिवोत्सूत्र लेशप्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामेव भजन्ति, तस्य विषमविपाकत्वात्, यदागमः – दुब्भासिएण ( इक्केण, मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडिं, सागरसरिनामधिजाणं ॥ १ ॥ अथ केषाश्चिद्देशना उत्सूत्र | व्यतिरिक्तप्रागुक्तसभाद्यनुचितभाषणादिदोषबहुला स्वल्पगुणा चेति नववृष्टिजलपूर्णलघुसरोजलतुल्या । सा श्रोतॄणां बोधिनाशादिबहुदोषोद्भवकृत् स्वल्पपुण्यलाभ हेतुश्च, साकेतपुरागतश्रीधर्मघोषसूरिभागिनेयमुनिचन्द्र देशनावत् । तत्सम्बन्धश्च प्राध्यगाथायामेव प्रथित इति । अत्र गुणदोषयोर्गुरुलघुत्वं यथाऽर्ह स्वयमेव चिन्त्यं विशेषज्ञैः । यतः कश्चिद्दोषः स भवति य एकोऽपि सर्वान् गुणान् लुम्पति, एवं गुणोऽपीति । ततस्तादृशेनैकेनापि दोषेण गुणेन वा बहुदोषता बहुगुणता ॐ वाऽवसेया इति द्वितीयो भङ्गः २ केाविद्देशना पुनः प्रागुक्तयुक्तया बहुगुणा स्वल्पदो ना चेति प्रागुक्तप्रौढ सरोजलतुल्या, सर्वेपामात्मनः शुद्धिभावतृष्णाताप द्यपनोदं चेच्छतामविगानेन निषेव्या भवति ३ । मानससरोजलवन्निर्दोषा सर्वगुणसम्पन्ना ॐ पुनर्देशना श्रीतीर्थकर गणधरादीनाम् ४ । तत्सेवायोगः पुनर्भाग्यविशेषलभ्य इति । For Private & Personal Use Only १७००७ lainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy