________________
000000000000000
वैयावृत्त्यादिकं क्रियमाणं महानिर्जराहेतुरिति । एवमपि शिक्ष्यमाणो यदि न करोति, ततः तस्मिन्नकुर्वाणे स्वयमाहा-01 रादीनुत्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिक न लभते, ततः श्राद्धान् भणति प्रज्ञापयति, प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति । न च वाच्यं, तस्यैवं कुर्वतः कथं न दोपो यत आह-अबोच्छित्तीत्यादि-अव्यवच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभत्तया हेतुभूतयाऽकल्पिकस्याहारादेः पूजां कुरुत यूयं, न च तत्र दोष एवमत्रापि । इयमत्र भावना-यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमप्याहारादिकं यतनया तदर्थ प्रतिसेवमानः शुद्धो, ग्रहणशिक्षायाः क्रियमाणत्वाद्, एवमालोचनाऽर्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव । आसेवनाशिक्षायास्तत्समीपे क्रियमाणत्वादिति । एतदेव स्पष्टतरं भावयति-दुविहा सती एतेसिं, आहारादी करेइ सबं से। पणहाणीए जयंतो, अत्तहाए वि एमेव ॥७॥ इह परिवाराभावे तस्यालोचनाहस्य कर्तव्यमिति सामाचारी । तेषां च पार्श्वस्थादीनां दुविहा सतीति परिवाराऽभावो द्विविधः, विद्यमानाभावोऽविद्यमानाभावश्च । विद्यमानः सन्नभावोऽसन् वैयावृत्त्यादेरकरणाद् विद्यमानाऽभावः । अविद्यमानः सन्नभावो अविद्यमानाभावः। तत्र द्विविधेऽप्यभावे 'से' तस्यालोचनाहस्याहारादिकं सर्व कल्प्यमकल्पिकं वा यतनया करोति उत्पादयति । यतनया कथमकल्पिकमुत्पादयति इति चेदत आह-एवं पञ्चकहान्या यतमानः, किमुक्तं भवति? अपरिपूर्णमासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनां करोति तामपि यतनया । पञ्चकग्रहणमुपलक्षणं, दशादिहान्यापि यतमान इति द्रष्टव्यम् । एवं सर्वत्र, न केवलमालोचनाार्थमेव यतते, किन्तु कारणे आत्मार्थमप्येवमेव यतते इति श्रीव्यवहार
இருவரும்
Jain Education
For Private
Personal use only
H
ininelibrary.org