________________
सुनिसुन्दर वहति, यावत्तपो वहति तावत् तस्याऽऽलोचनाप्रदायिनः सुखदुःखे गवेषयति, सर्वमुदन्तं वहतीत्यर्थः । पश्चात्कृतवि
तरंग १० सू०वि० ताषयमेव विधिमाह-लिंगकरणं निसिज्जा, किइकम्ममणिच्छओ पणामो। एमेव देवयाए, नवरं सामाइयं मुत्तुं ॥४॥ पश्चा
त्कृतस्येत्वरकालं सामायिकमारोप्य लिङ्ग रजोहरणं च समर्प्य कृतिकर्म दातव्यं, कृतिकानिच्छतः प्रगामो वाचा कायेन च प्रणाममात्रं कर्तव्यम् । पार्श्वस्थादेरपि कृतिकानिच्छायां प्रणामः कार्यः । अनेनैव प्रकारेण देवताया अपि सम्यक्त्वभावितायाः पुर आलोचयति, नवरं सामायिकारोपणं लिङ्गार्पणं च न कर्त्तव्यम् , अविरतत्वेन तस्यास्तयोग्यताया अभावात् । गवसणा जाव सुहदुक्खे इति व्याख्याति-आहारउवहिसिज्जाएसणमाईसु होइ जइअब। अणुमोअणकारावण, सिक्खत्ति पयंमि तो सुद्धो॥५॥ आहारेषणायामुपध्येपणायां शय्येषणायां च, आदिशब्दाद्विनयवैयावृत्त्यादिषु च भवति तेन यतितव्यं, कथमित्याह-अनुमोदनेन कारापणेन च, किमुक्तं भवति-यदि तस्याऽऽलो-1 चनार्हस्य कश्चिदाहारादीनुत्पादयति, अथ, शुद्धं नोत्पद्यते, ततः श्राद्धान् प्रोत्साह्याकल्पिकानप्याहारादीन् यतनयोत्पादयति । अथाऽकल्पिकानाहारादीनुत्पादयतस्तस्य महती मलिनतोपजायते, अथ शुद्धिकरणार्थं तदन्तिकमागतस्ततः परस्परविरोधः । अत्राह-सिक्खत्ति पयंमितो सुद्धो, यद्यपि तस्यालोचनाहस्यार्थायाकल्पिकानप्याहारादीनुत्पादयति,
तथाप्यासेवनाशिक्षा तस्यान्तिके क्रियते इति पदेऽपवादपदे, स तथा वर्तमानः, शुद्ध एव । एतदेव भावयति-चोअका इसे परिचार, अकरेमाणे भणाइ वा सड्ढे । अवुच्छित्तिकरस्स उ, सुअभत्तीए कुणह पूअं ॥६॥ प्रथमतः, से तस्यालोचना
हस्य परिवारं वैयावृत्त्यादिमकुर्वन्तं चोदयति शिक्षयति, तथा ग्रहणासेवनाशिक्षानिष्णात एषः, तत एतस्य विनय-1ला
000000000000000
000000000000000000000
Jain Education
DEHDBlional
For Private & Personel Use Only
प
ww.jainelibrary.org