SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ लासरूवि पच्छाकडे अ गीयत्थे । पडिकंते अब्भुटिअ, असई अन्नत्थ तत्थेव ॥ १॥" संविग्नेऽन्यसाम्भोगिकेऽसति पार्श्व स्थस्य गीतार्थस्य समीपे आलोचयितव्यं, तस्मिन्नसति सारूपिकस्य वक्ष्यमाणस्वरूपस्य गीतार्थस्य समीपे, तस्मिन्नसति पश्चात्कृते पश्चात्कृतस्य गीतार्थस्य समीपे आलोच्यम्। एतेषां च मध्ये यस्य पुरत आलोचना दातुमीष्यते, तमभ्युत्थाप्य || तदनन्तरं तस्य पुर आलोच्यम् , अभ्युत्थानं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा (कारणा)।तथा चाहपडिकते अन्भुट्टिएत्ति, अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रति कृताऽभ्युपगमे, प्रतिक्रान्तो भूयान्नान्यथा । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाऽभ्युत्तिष्ठन्ति तत आह-असइत्ति, असति अभ्युत्थाने, पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वा आलोच्यम्, इतरस्य तु पश्चात्कृतस्यत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोच्यम् । अन्नत्थ तत्थेवत्ति-यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति, तदा तेनाऽन्यत्र गन्तव्यं, येना प्रवचनलाघवं न स्यात्। तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धं तपो (वा) वाहयति, मासादि, उत्कर्षतः षण्मासापर्यवसानम्।। यदि वा प्रागुक्तस्वरूपं परिहारतपः । अथ स नाभ्युत्तिष्ठति, शुद्धं च तपस्तेन प्रायश्चित्तं दत्तं, ततस्तत्रैव तपो वहति । का एतदेव असति इत्यादिकं व्याख्याति-असई इति लिङ्गकरणं, सामाइअ इत्तरं च किइकम्मं । तत्थेव य सुद्धतवो, गवेसणा जाव सुहृदुक्खे ॥३॥ असति अविद्यमाने पश्चात्कृतस्याभ्युत्थाने गृहस्थत्वाल्लिङ्गकरणं इत्वरकालं लिङ्गार्पणं, तथा ॥ इत्वरकालं सामायिकमारोप्यं, ततस्तस्यापि निषद्यामारचय्य कृतिकर्म कृत्वाऽऽलोच्यं, तदेवमसतीति व्याख्यातमधुना। तत्थेवत्ति व्याख्या-यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति, शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं, ततस्तत्रैव शुद्धं तपो H 00000000000000000 90000000जीपरिमिजिक - ४ Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy