________________
उपदेशर० तरंग १०
मुनिसुन्दर कलुषिततमधर्मजलवाहिन इति पुरनिर्द्धमनाभाः, यथाच्छन्दादिवत् , अयोग्याश्चैते सर्वथापि १। यथा च नवाम्बुदवृष्टिसू०वि० जलपूर्ण लघुसरो बहुलधूलिपटलकश्मलितजलत्वेन स्ववपुषि तथाविधारोग्यसुखाभिलाषिणां स्नानादौ तथाविध
शुद्ध्यर्थिनां च विवेकिनां नानणीयं भवति, दूरतोऽपि तथाविधनिर्मलजलाश्रयान्तरालाभे पुनस्तथाविधेऽवसरेऽशु-1101 ॥७८॥
चिरहितमित्याद्रियेतापि जलपानाद्यर्थ, न तु तत्र रतिः क्रियते, तथा केचिद्गुरवः प्रभूततमप्रमादशबलीकृतचारित्रजलतया बहुदोषा इति कृत्वा भवं निस्तितीर्पूणां विवेकिनां त्याज्या एव भवन्ति । यदागमः "पासत्थोसन्नकुसी-1 लनीयसंसत्तजणमहाछंदं । नाउणतं सुविहिआ,सबपयत्तेण वजंति ॥१॥" उत्सूत्राद्यशौचपरिहारेण शुद्धधर्ममार्गोपदेशित्वादिना किश्चिद्गुणभृतश्चेतिकृत्वा सुगुरुयोगाभावे तथाविधेऽवसरेऽपवादतो धर्मश्रवणाद्यर्थमाश्रयणीया अपि भवन्ति | यथाविधि । तथा चागमः-आयरिए आलोयण, पंचण्हं असइ गच्छवहिआओ। वुच्चत्थे चउ लहुगा, अगीअत्थे हुंति चउ
गुरुगा॥१॥ व्याख्या-आचार्ये आचार्यसमीपे आलोचना दातव्या,गच्छे पञ्चानामाचार्यादीनामसति गच्छाबहिर्गन्तव्यम्। का लाइयं भावना-प्रायश्चित्तस्थानमापन्नेन साधुना नियमतः स्वकीयानामाचार्याणां समीपे आलोचयितव्यं, तेषामभावे उपा
ध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनः । अथ स्वगच्छे पश्चानामप्यभावस्ततो बहिरन्यस्मिन् साम्भोगिके गन्तव्यं, तत्राप्याचार्यादिक्रमेणाऽऽलोचयितव्यं, साम्भोगिकानाामचार्यादीनामभावे संविग्नानामसाम्भोगिकानां समीपे गत्वा आचार्यादिक्रमेणाऽऽलोचयितव्यं, यदा पुनरुक्तक्रमोल्लङ्घनेनाऽऽलोचयति तदा प्रायश्चित्तं चत्वारो लघुमासा, यदि पुनरुक्तं क्रममुल्लयन्न गीतार्थसमीपे आलोचयति तदा प्रायश्चितं चतुर्गुरु संविग्गे पासत्थे
2800000000
€66666666666660000309
in Education
For Private & Personel Use Only
jainelibrary.org