________________
॥ अथ दशमस्तरङ्गः ॥ पुनर्निदर्शनान्तरैः श्रीगुरूणां तद्देशनायाः प्रस्तावाद् सामान्यतो जीवानां च योग्यायोग्यत्वमाह
पुरनिद्धमण १ नवंबुअभरिअलहु २ पोढ ३ माणससराभा ४ ।
दोसगुणेहिं चउहा, गुरुणो तद्देसणाय जिआ ॥१॥ व्याख्या-पुरस्य नगरस्य निर्द्धमनं जलनिर्गमनमार्गः जने खाल इति प्रसिद्धः, नवाम्बुना अभिनववृष्टिजलेन भृतं लघुसरः, लघुत्वं चाऽस्य स्वल्पदिनस्थायिजलत्वेनातिगम्भीरत्वादिना च २ तेनैव भृतं प्रौढं सरः, प्रौढत्वं चास्य सदाप्यक्षयिजलत्वात् ३ मानससरश्च प्रसिद्धं, द्वन्द्वे, तद्वदाभा येषां ते दोषगुणाभ्यां हेतुभ्यां चतुर्की गुर्वादयो भवन्तीति क्रमशोऽर्थः । दोषगुणेति पदद्वयोक्तावपि केवलदोषं १, बहुदोषमल्पगुणं २, अल्पदोषं बहुगुणं ३, केवलगुणं ४, चाश्रित्येयं चतुर्भङ्गी । तत्र दृष्टान्तेषु दोषा धूल्यादिकलुषितेन विण्मूत्राद्यशुचिना च जलेन पूर्णत्वादयः, गुणाश्च निर्मलजलत्वपवित्रत्वादयः । अथैषा चतुर्भङ्गी प्रथमं गुरूनाश्रित्य भाव्यते-तत्र गुरुषु दोषा अष्टविधप्रमादादय उत्सूत्रप्ररूपकत्वादयश्च । गुणाः पुनः पञ्चविधाचारसमाचरणनिपुणत्वादयः शुद्धधर्मप्ररूपकत्वादयश्च । ततश्च यथा पुरनिर्द्धमनं नगरखालः कलुषतमेन सकलनगरलोकविडादिमलमूत्राद्यशुचितमेन च जलेन वहमानेन पूरितो भवति वर्षादौ, ततः केवल दोषमय इति । तथा केचन गुरवो मलोपमबहुलतमव्रतातिचारप्रमादप्रभृतिभिरशुचिसमोत्सूत्रप्ररूपणादिभिश्च
090099*DOOGDHE
न्या चतुर्दा गर्व
SCOOTESSOCCORDE
तापमल्पगुणं २,
देकलुषितेन
Jain Education
:
For Private & Personel Use Only
a
ajainelibrary.org