SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ उपदेशर तरंग मुनिसुन्दर सोऽपि हि । मथनादरणेः काष्ठेऽप्यनलो नृपते! यथा ॥ ३ ॥ दृतिर्वातभृता राजन्नतोल्यत मयैकदा । रिक्तीकृत्य सू०वि० पुनः सैव, तोल्यते स्म तथैव हि ॥ ४ ॥ एकमेवाऽभवन्मानं, तस्या द्वेधापि तोलने । न हीनाधिकता कापि, जाता वातभृता पुनः॥५॥ कुम्भिकान्तः पुरा क्षिप्त्वा, पुरुषं शङ्खवादकम् । बवा द्वारं लाक्षयित्वा, तेन शङ्कम॥७४॥ वीवदम् ॥ ६ ॥ बहिस्तच्छन्दमश्रीषं, सोऽप्यच्छिद्रेऽपि निर्ययौ । इतोऽपि सूक्ष्मो जीवस्तु, किं न कुर्याद्दमागमौ? Om७ ॥ तस्मादेहातिरिक्तोऽयं, सर्वेषामपि देहिनाम् । जीवोऽस्तीति स्वयं चित्ता-ऽनुभवाध्यक्षगोचरः ॥ ८ ॥ चैतन्यपूर्वगत्यादि-चेष्टालिङ्गोऽवगम्यताम् । राजन् ! पताकाचलनलिङ्गग्राह्यसमीरवत् ॥९॥ जीवे च सति राजेन्द्र ! परलोकानुगामिनि । धर्माधर्मोद्भवी ज्ञेयौ, स्वलोकनरकावपि ॥ १० ॥ स्वर्गान्माता च यन्नागा-त्तत्रेदं नृप! कारणम् । निसर्गसुन्दरे स्वर्गे, विलसन्तः सुखं सुराः ॥११॥ नरानधीनकर्तव्याः, प्रेमपाशवशंवदाः। प्रेक्षणादौ समाक्षिप्ता, असमाप्तप्रयोजनाः ॥ १२ ॥ अर्हत्कल्याणकादीनि, विमुच्य न कदाचन । तिर्यग्लोकस्य दौर्ग-1 न्ध्या-दागच्छन्त्यत्र जातुचित् ॥ १३ ॥ यथाऽत्यद्भुतशृङ्गारः, कृतदिव्यविलेपनः । न प्रयात्यशुचिस्थाने, दुर्गन्धे नरकादपि ॥ १४ ॥ पिता तु तव नायासी-द्वेदयन्नरकव्यथाम् । आगन्तुं लभते नात्र, परमाधार्मिकैधृतः ॥१५॥ अपराधी यथा कश्चि-निग्रहीतुं त्वया धृतः । नारक्षाल्लभते यातुं, स्वजनाननुशासितुम् ॥ १६ ॥ एवं स्वर्गनरकयोः, स्थिति ज्ञात्वा मा मुहः । तच्छुत्वा राजा समुल्लसद्रोमाञ्चः करौ मौलीकृत्य गुरुं व्यज्ञपयत्--स्वामिन् ! का मोहपिशाचोऽयं, नष्टोऽद्य प्रबलोऽपि नः । मान्त्रिकस्येव मन्त्रेण, ताड्यमानो भवद्राि ॥ १ ॥ अज्ञानतिमिरा-1 OOOOOOOOOOOO 0000000000000000000 ॥ ७४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy