________________
00000000
|ऽऽक्रान्ते, ममाद्यान्तरलोचने । उद्घटिते प्रभुव्याख्या-सुधाञ्जनशलाकया ॥ २ ॥ ज्ञातं स्वामिन् ! मया धर्मों जैनधर्मात्परो न हि । यथादित्यात्परो नान्यः, प्रत्यक्षस्तेजसां निधिः ॥ ३॥ ततः प्रतिबुद्धः श्रीसम्यक्त्वमूलं धर्म प्रत्यपद्यतेति । इति श्रीप्रदेशिनृपकथा । यथा श्रीकेशिगणधरः प्रदेशिनृपं प्रति सुखग्राह्यशुभधर्मफलस्तथाऽन्येऽपि गुरव इति तृतीयो भङ्गः। | गिरिशिरस्तरुवरस्याम्रादेर्यथा फलानि शुभानि, परं गिरिशिरःस्थत्वेन दुष्णापाणि, ताहगुपक्रमवद्भिश्च कैश्चित्कथञ्चित्पाप्यन्ते च, तथा केचिद्गुरवो गुरुगुणालङ्कतत्वेनोत्तमा इत्याम्रादिवरतरुसदृशाः, परं तादृशोषणादिप्रकृतिमत्त्वेन दुःखासेवनीया इति तेभ्यः शुभधर्मरूपं फलं ग्रहीतुं दुःश(कम्)क्यं, केवलं कैश्चिदेव तादृग्विनयादिगुणोपपन्नैः कथश्चिग्रहीतुं शक्यं का | स्यादिति दुःखग्राह्यशुभधर्मफलाः श्रीचण्डरुद्राचार्यवदिति चतुर्थो भङ्गः। __ यथा चावकेशीतरुर्बहुसेवितोऽपि सिक्तोऽपि रक्षितोऽपि वर्द्धितोऽपि वा न कदापि फलं सूते, केवलं छायां करोति, तथा कश्चिद्गुरुर्बहुपर्युपासितोऽप्यशनादिभिर्बहूपचरितोऽपि वस्त्रादिभिः सत्कृतोऽपि च न किञ्चित शुभधर्मरूपं अशुभधर्मफलरूपं वा फलं दत्ते स्वाश्रितेभ्यः, केवलं तेषामावर्जनाद्यर्थ तद्गुणप्रशंसातन्मनोऽनुकूलसरसगाथाकवित्वाद्युपदिशति, तच्छ्रवणाद्यावर्जिताश्च ते तं पर्युपासते । यदि किञ्चिद्धर्ममुपदिशति तदापि देवपूजादानादिरूपमेव, न तु विशेषविध्यनुष्ठानादिरूपं, गोत्रदेव्यादिपूजनपितृदानादिकरणाद्यप्युपदिशतीति तदुपदिष्टस्य किचिन्मिथ्यात्वमिश्रितस्य देवपूजादिधर्मस्याल्पत्यान्न विवक्षेति । पार्श्वस्थाचार्यादयोऽत्र दृष्टान्ताः । यद्वा केचित्सुविहि ||
00000000000000000000000
Jain Education in
For Private & Personel Use Only
N
ainelibrary.org