________________
उ. १३
1000006666
पास्थादि । ततो देवेन चारुदत्तश्चम्पायां स्वगृहे मुक्तः । तत्र सुवर्णरत्नादिवृष्टिश्चके इति । यथैष पिप्पलादः सुखग्राह्याशुभधर्मफलस्तथा केचिदन्येऽपीति प्रथमो भङ्गः १ ॥
यथा च तालद्रुमस्य फलानि साधुलोका भक्ष्यत्वेन निन्द्यानि, तालस्य निः शाखोच्चैस्त्वेन दुर्ग्रहाणि च, तथा केचिद्गुरवः | पूर्वोक्तानुसारेणाशुभधर्मरूपं फलं ददति, परं तदपि तेषां विद्याद्यभिमानोन्नततया रोषणादिप्रकृतितया अतिलोभतया प्रमादान्तरेण वा बुद्धिमान्द्यवागपाटवादिहेतुभिर्वा तेभ्यो ग्रहीतुं दुःशकम् । केवलं कस्यचित्तद्धर्मविषये तीव्राध्यवसायवतो भृशौदार्यादिगुणवतो बहुधनादिभिः पूजापरस्य ते प्रमादादि त्यक्त्वा तथोपदिशन्ति यथा (च) तं तन्मनसि निवेशयन्तीति दुःखग्राह्याशुभफलाः । दृष्टान्तदार्शन्तिकयोजना सुगमा । नवरं तालौन्नत्येनोपमितं तदीयाभिमानौन्नत्यरोपणप्रकृतितादि । इति द्वितीयो भङ्गः २ ॥
यथा कदलीतरुरुत्तमः तस्य फलानि च शुभानि सुखग्राह्याणि च, तथा केचन सुगुरवः सकलसद्गुरुगुणालङ्कृततयोत्तमाः, क्षीरास्रवमध्वास्रवादिलब्धिसंपन्नाः परोपकारैकप्रवृ ( वृत्तयो निःस्पृहवृत्त्यैवोभयलोकहितमहिंसामूलं धर्मं तथोपदिशन्ति यथा बालादयोऽपि तं सुखेन प्रतिपद्यन्ते, पश्वादयोऽपि च, किंपुनः सुमेधस इति सुखग्राह्यशुभधर्मफलाः । यथा श्रीकेशिगणभृतः श्रीप्रदेशिनृपस्य । तद्यथा - श्वेतम्बिकानगर्यो नास्तिकधर्मभावितः प्रदेशी राजा, तस्य चित्रनामा मन्त्री, | सोऽन्यदा राजकार्यार्थ श्रावस्त्यां गतः । तत्र चतुर्ज्ञानधरं श्रीकेशिगणधरं नन्तुमागतं जनसमुदायं दृष्ट्वा सोऽपि कौतुका
Jain Education International
For Private & Personal Use Only
nelibrary.org