SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर तरंग८ 000000 चारुदत्तं वन्दित्वा साधु नतवान् । विद्याधराभ्यामुतम्-देव! कोऽयं ते विधिः, ततस्स आह-शृणुतम्, वाराणस्यां सुलसासुभद्रे परिवाजिके विद्याबलगर्विते वसतः । अथ तत्र याज्ञवल्क्यः परित्राटू समागमत् । तेन सुलसा वादे जिता दासीकृता। कर्मवशात् तयोः स्नेहसम्बन्धे पुत्रो जातः । लोकापवादभिया, पिप्पलवृक्षाधो जातमात्रं सुतं त्यक्त्वा देशान्तरे गतौ । सुभद्रया प्राप्तस्तच्छुद्धिगवेषणं कुर्वत्या, तत्र स्थाने मुखपतितपिप्पलफलः स सुतो दृष्टः ।। गृहीत्वा वर्द्धितः, पिप्पलाद इति नाम कृतं, सर्वविद्याग्राहितः । अन्यदा विद्यामदात् स पत्रोत्तम्भनं चकार । बहून् वादिनोऽजैषीत् । बहुसमयातिक्रमे तं पिप्पलादं महावादिनं श्रुत्वा स्वसुतमजानन् तेन सह वादाय सुलसायुतो याज्ञवल्क्यः पुनाराणस्यां प्रापत् । पिप्पलादेन वादे जितः। तस्मिन्दासीक्रियमाणे सुभद्रा स्वपित्रोरवज्ञा मा काषींरिति वदन्ती पिप्पलादस्य जन्मतः आरभ्य वृत्तान्तमाचख्यौ। तं श्रुत्वा पितरौ प्रति रुष्टः स स्वबुध्या मातृमेधपितृमेधाsश्वमेधगोमेधप्रमुखान् यज्ञान् कल्पयित्वा पितरौ हन्ति स्म । तं तथाविधं हिंसादिमयं धर्म तथा तथा शास्त्राणि विधाय तत्संवाददर्शनेन कथञ्चिदाराद्धदेवतादर्शितचमत्कारादिभिश्च तथा स्वशिष्यादीनां पुरः प्ररूपितवान् यथा तेषां हृदि सुखेनैव सम्यक्तया प्रतिभातस्तथाविधोऽपि स धर्मः प्रतिपन्नश्च तैः सुखेन, तच्छिष्योऽहं तथाविधान यज्ञान् कृत्वा पञ्चमनरके गतः। ततः पञ्चसु भवेषु पशुर्जातो यज्ञेषु हतश्च । षष्ठे भवे पुनरनेन मेऽनशनं दत्तं, नमस्कारः श्रावितश्च । तन्महिम्नाऽहं सुरो जातः । अतश्चारुदत्तो धर्मगुरुत्वेन मया पूर्व नत इति । तच्छ्रुत्वा सर्वेषां जिनधर्मे विशे TOGGES PAGE oil| ७२॥ Jain Education Indian For Private Personel Use Only R ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy