________________
ஓருருருருருருருருருருருரு
यथा बालबुद्धीनामपि सुखग्राह्यं स्यात् पिप्पलादवत् । चम्पायां श्रेष्ठी भानुर्भार्या सुभद्रा, तयोः पुत्रश्चारुदत्तोऽन्यदा वने प्राप्तो वैताढ्यवास्यमितगतिविद्याधरं वैरिणा कीलितमपश्यत् । सञ्जातकृपस्तन्मोचनोपायं गवेषयंस्तदीयखगकोशान्तःस्थितां विशल्यौषधीमद्राक्षीत् । तत्प्रयोगेण तं व्यमोचयत् । स विद्याधरस्तमुपकारं स्मरन् स्वं स्थानमाप । ततः क्रमाच्चारुदत्तः कन्यां परिणिन्ये। तद्विलासपराङ्मुखो मात्रा कथमपि गणिकागृहे क्षिप्तस्तत्र द्वादशव(भिर्व)ः षोडशकोटीमितं स्वर्णं बुभुजे। अन्यदा निर्धनोक्तया (धनतया)पराभूतः स्वगृहे गतो मातापित्रोः स्वर्गमनं, धनभ्रंशं, पत्न्याः पितृगृहगमनादि ज्ञात्वा विषण्णः श्वशुरगृहं प्राप्तः । ततः श्वशुरधनं गृहीत्वा धनार्जनार्थ स्थलपथे, ततः पितृमित्रधनेन जलपथे, ततो मातुलादिधनैरन्यत्र च गतः। परमन्तरायोदयात्सर्वत्र चौरधाटीवनदवप्रवहणभङ्गादिभिर्विफलितमनोरथो योगिनोऽमिलत् । तेन रसार्थ रसकूपिकायां क्षिप्तः । ततो गोधाव्यतिकरेण कथमपि बहिर्निर्गतो वनगजादितो नश्यन् सुवर्णभूमिकां प्रति गच्छन्तं मातुलसुतं रुद्रदत्तं दृष्ट्वा तस्यामिलत् । तेन मेषद्वयं क्रीतं, तदारुढी समुद्रतटे प्राप्तौ । रुद्रः माह-मेषौ व्यापाद्य क्षुरिकां गृहीत्वा भस्त्रिकामध्ये प्रवेष्टव्यं, ततो भारण्डा मांसधिया स्वर्णद्वीपे नेष्यन्ति । चारुदत्तो वक्ति-जीववधः कथं क्रियते ? रुद्रेण स्वमेषो हतः । यावत्स द्वितीयं हन्ति तावच्चारुदत्तेन तस्मै दत्तमनशनं, श्रावितश्च पञ्चपरमेष्ठिमन्त्रः । ततो द्वावपि पृथक् पृथग् भस्त्रिकायां प्रविष्टौ भारण्डैरुत्पाटितौ । चारुदत्तभस्त्रिका पक्षिमुखात्सरस्यपतत् निर्गतश्चारुदत्तः शैलोपरि साधु नतवान् । साधुराह-भद्र । सोऽहममितगतिविद्याधरः, यस्य त्वया कीलितस्योपकारः कृतः । अत्रान्तरे विमानारूढौ साधुसुतौ विद्याधरौ पितुर्नन्तुमागतो, तावदेव कश्चिदागत्य
00000000000000000000000
मालसुतं रुद्रदत्तं दृष्ट्वा तस्यामिलाकरेण कथमपि बहिनिर्गतो वकालतमनोरथो योगिनो
Jain Education
For Private Personal Use Only
rainelibrary.org