SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर ॥ अथाष्टमस्तरङ्गः॥ उपदेशर० तरंगा पुनः प्रकारान्तरेण गुरुगतं योग्यायोग्यस्वरूपमाह॥७१॥ रीगणि १ ताल २ कयलितरु ३ गिरिसिरिवरतरु ४ निभा चउह गुरुणो। सुहदुहगिज्झाऽसुहसुह-धम्मफला केवि अवकेसी ॥ १॥ व्याख्या-रीङ्गणीतालकदलीतरवः प्रसिद्धा, गिरेः शिरसि विषमोन्नतप्रदेशे वरः प्रशस्यो यस्तरुरामादिः, तैश्चतुर्भिस्सदृशाश्चतुर्धा गुरवो भवन्तीति । सादृश्यमेव विशेषणद्वारेणाह-सुहदुहगिज्झाऽसुहसुहधम्मफला इति । यथा ते पूरा चत्वारोऽपि तरवो यथाक्रमं सुखदुःखग्राह्याशुभशुभफला भवन्ति तथा गुरवोऽपि क्रमतः सुखदुःखग्राह्याशुभशुभका धर्मफलाश्चतुर्धा भवन्ति । तथाहि-सुखग्राह्याऽशुभधर्मफलाः १, दुःखग्राह्याऽशुभधर्मफलाः २, सुखग्राह्यशुभधर्म-15 फलाः ३, दुःखग्राह्यशुभधर्मफलाश्च ४ । तत्र अशुभो धर्मो हिंसारात्रिभोजनादिरूपो दुर्गतिहेतुत्वेन । शुभधर्मस्तु जीवदयासत्यशीलसन्तोषादिरूपः, परमपदावधिसद्गतिसुखहेतुत्वेनेति । केचिद्गुरवः पुनरवकेशितरुवन्निष्फला एव स्युः, शुभधर्मरूपमशुभधर्मरूपं च फलं न ददतीत्यर्थः। तत्र रीङ्गणीतरोः फलानि अशुभकटुरसत्त्वादशुभानि, बालानामपि सुखग्राह्याणि च यथा स्युस्तथा केचिद्गुरवो रीङ्गणीतरुवद् गुरुगुणरहितत्वेन नीचतमा अशुभधर्मरूपं फलं स्वाश्रितेभ्यस्तथाविधक्षयोपशमजवाग्युक्तिबहुविधदृष्टान्तादिप्रयोगतादृक्चमत्कारशक्तिदर्शनादिरञ्जनकलाकौशलादिभिस्तथा ददति 00000000000000006 0000000000000000000000 मात्र अशुभी धर्मो त केचिद्गुरखामकरसत्त्वादशमी फलं स्वा Jain Education Inter For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy