SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ७ 000000000000000000000 तिभिर्मिथ्यादृशां पराभवक्षमतया दुर्धर्षप्रकृतयस्तृणसमाशुद्धाहारादिपरिहारेण धर्मवपुःपुष्टिकृच्छुद्धपिण्डशव्यावस्त्रपात्रादिपरिभोगिणो रूपादिपात्रनरामराङ्गनाधनादिभिरपि मोहपाशेषु पातयितुमशक्याः स्वजनभक्तश्रावकश्राविकादीनामपि महाभक्तिदानवन्दनपूजास्तवादिभिरपि-पलिमंथमहं विआणिआ,जाविअ वंदणपूअणा इहं । सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवे ॥ १ ॥ इत्याद्यागमानुसारेण तदैहिकप्रत्युपकाराऽकरणादिनाहङ्कारादिसूक्ष्मशल्याद्यनु त्पत्त्या वा वशतामयान्तः माद्यन्मदकलघटा इव दुर्गन्धमिथ्यात्वकषायविषयाभिलाषादीन् भव्यमनोवनेभ्यः स्वोपदेशमात्रेण त्रासयन्तः । परप्रवादांश्च नानाप्रमाणहेतुयुक्तिकलापदुद्धरोपन्यासादिभिः पराभवविह्वलांस्त्रासयन्तोऽत्रस्तांश्च नि जयन्तो निजगच्छं श्रीजिनशासनं च प्रमादादिभ्यः कुवादिभ्यश्च त्रायमाणा बहुभव्यजनप्रतिबोधपुण्यलाभानुरूपं नानाक्षेत्रेषु विहरन्तश्चोचितवस्त्राहारादिदानपरैर्बहुविधै राजामात्यमहेभ्यादिभव्यनिवहैः शुद्धोपदेशस्मारणा हेयाऽर्थवारणोचितप्रेरणादिभिर्मिथ्यात्वकषायविषयप्रमादादिरिपुभ्यस्त्रायमाणैरविश्रमं वन्दनस्तुतिपूजादिपरैः परिवृताश्च शोभन्ते । जन्मजरामरणादिदुःखदवाग्निमभिवीक्ष्य त्रस्तांश्च तान् भवविषयतृष्णातरङ्गिणी तारयन्ति । प्रापयन्ति शिवपदं, स्वयं च तरन्ति श्रीवज्रस्वाम्यादिवदिति ५॥ हा भारंडत्ति-भारण्डा द्विजीवा द्विमुखा एकोदराश्चेत्यादिलक्षणाः पक्षिविशेषाः, ते च सदाप्यप्रमत्ता यत्किञ्चित्पाशादि भयस्थानं शङ्कमानाः सर्वाग्राह्यप्रकारमत्युच्चैश्चरन्तः कैरपि कथश्चनापि पाशादिषु पातयितुमशक्याः, स्वपक्षप्रवेशादिना स्वमाश्रितांश्च कांश्चित्कियन्नदीसमुद्रादिजलं तारयन्ति । तथा जिनकल्पिकप्रतिमा तिपन्नकाद्याः केचिन्मुनयो| 90000000000000000000000 ॥७०॥ Jan Education Internatione For Private Personel Use Only mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy