SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 000000000000000000001 द्रकर्मद्रुमसमूलोन्मूलनैकाविश्रान्तक्रीडिता भवाटव्यां मनोऽभिरामे श्रीमत्यात्मारामे सहेलं खेलन्ति सङ्गताः सर्वविरतिश्रीभिः, निरीक्ष्य च प्रज्वलत्क्षुद्रसत्त्वसहस्रसङ्घलं रौद्रं कषायदावानलं त्रस्यन्तस्तृष्णामहानदी समुल्लसत्साम्यामृतोलर्मिभिः सर्वाङ्गीणोद्यत्तापव्यापोपशान्त्या परमशैत्यसुखमात्मानं प्रापयन्तो लीलामात्रेणोत्तीर्य प्रामुवन्त्यैकान्तिकात्यन्तिक-16 निरातङ्कसुखं परमपदं, परं स्वात्मतारणैकपरतया न प्रभवन्ति परांस्तारयितुं, तादृग्धर्मदेशनाद्यप्रयोगात्तदूबलविकलतादिहेतोर्वा श्रीशालिभद्रधन्यादिमहर्षिवत् ४॥ ___ हरित्ति-हरयः सिंहा यथा ते महाबलशालिनो दुर्धर्षप्रकृतयो जीर्णतृणादिपरिहारेणानुच्छिष्टबलपुष्टिकृन्महामांसान्येवाहरन्तः कैरपि पाशेषु पातयितुमशक्या महाभटादीनामपि वशतामनायान्तः, स्वगन्धक्ष्वेडाक्रीडितमात्रेण माद्यन्महागजघटा अपि विघटयन्तः, सङ्घामादौ पुच्छच्छटाच्छोटविकटाः, क्षुद्रेतरक्ष्वेडाघोरनिर्घोषैः करालदंष्ट्राक्रकचैस्तीक्ष्णनखायुधैश्च परान् शूरानपि सद्यः समुत्थिता एव त्रासयन्तोऽत्रस्तांश्च विदारयन्तो निज (जा) वासपदगिरिवनगुहादि भङ्गजसूकरच्छेतृपुरुषादिभ्यो रक्षन्तो, बनान्तरानीतैकैकादिपशुप्रदानसेवाशरणमार्गणादिभिः प्रसादिताः स्वस्ववनवासिनः श्वापदान् सर्वोपद्रवेभ्यस्त्रा(य)स्यमाणास्तेष्वाधिपत्यमनुभवन्तस्तैः परिवृताः श्लाघ्यमानाश्च भ्राजन्ति(न्ते)। समये च तत्र वने प्रज्वलितदवानले त्रस्तान् वनान्तरं प्रति नश्यन्तोऽप्यन्तरास्थमहानदीमुल्लङ्घयितुमशक्ततया शरणमागतांस्तांस्तारयन्त्येव, एतद्भावना प्रागुक्तशृगालदृष्टान्ते च्छेदग्रन्थगतकथानकप्ररूपणया कृतेति । तथा केचिन्महामुनयस्तपस्तेजोनिधयः स्वपरमताऽऽगमतौद्यखिलशास्त्रतत्त्वावबोधबहुविधलब्धिमहिमकलादिस्फुरन्महाबलशालिनः सर्वाङ्गीणोद्यद्वादादिमहाश 000000000000000000000000 Jain Education For Private & Personel Use Only ratdjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy