SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ६९ ॥ Jain Education In नादधते प्रणिधानम् । तथा चाह स्तुतिकारः - क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयेवाहं, कारितः कपिचापलम् ॥ १ ॥ तेऽपि तादृक्स्मारणवारणादिसावधान महाशाखा दिविस्तारतटत रुस मानसुगुर्वादिसाहाय्यबलेन कथमप्युत्तरन्ति भवसागरजलं, न पुनः परानुत्तारयितुं प्रभवः, युगप्रधान श्रीकालकसूरिशिष्यादयश्चात्रोदाहरणीकार्याः । यद्वा यथा मर्कटाः प्रकृत्या चपलाः प्रमादिनश्च लोकप्रसिद्धोपाख्यानेन सुगृह्यादिपरगृहभङ्ग एव क्षमा न तु तत्करणादौ । तथा केचिदुड्डाहकलहमत्सरादिभिर्जिनशासनमहिम्नो भङ्गमेव कुर्बते न वृद्धिं ततश्च परेषां बोधिनाशहेतुभवनेन स्वस्यापि बोधिं ते नाशयन्तीति । तदुक्तम् - चेइअ दबविणासे, इसिघाए पवयणस्स उड्डाहे । संजइ चउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ १ ॥ ततो दूरे तेषां तरणतारणशक्तिवार्तापीति मर्कटदृष्टान्तभावना ३ ॥ करित्ति - यथा करिणो गजवराः पराक्रमनिधयः प्रसर्पदर्पभरवशप्रोल्लसत्प्रचण्डशौण्डीर्यतः प्रोच्चैस्तर तरुखण्डमूलोन्मूलनै कक्रीडिताः सजलजलधरगम्भीर गर्जितत्रास्यमानामुद्रक्षुद्राङ्गभृतो विन्ध्याटव्यादौ क्वचित्सल क्यादिमानाभिरामतरुवरारामेषु स्वेच्छया समं हस्तिनीभिः सहेलं खेलन्ति । ततः समीक्ष्य महादवानलं क्वचित्प्रज्वलन्तः त्रस्यन्तः क्वचित्प्राव्यावणितगुणागाधतरङ्गिणीं प्राप्ता जलकेलिलम्पटतया व्यपनयन्तः सकलबाह्यान्तरातपव्यापदं तदूर्मिभिः प्रापयन्तश्च परमशैत्यसुखमात्मानमुत्तरन्ति हेलामात्रेण तां प्राप्नुवन्ति च निरपायं पदं, परं न तेषां मृगादिश्वापदाधिपत्यादिव्यवहारः कश्चित् नापि परं स्कन्धादावारोप्य तारयन्ति कश्चिदिति । एवं केचन महर्षयस्तपोनिधयः पञ्चविधस्वा|ध्यायध्वनिगभीरगर्जितत्रास्यमानाऽमुद्रक्षुद्र विकल्पचक्रवालाः समुल्लसत्प्रबलधर्मशुक्लध्यानमहावीर्यशौण्डीर्योद्रेकद्रुततरामु For Private & Personal Use Only 0000000000000099996 उपदेशर● तरंग ७ ॥ ६९ ॥ jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy