SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 00000000000000000 दवाग्नौ सिंहमुपतिष्ठमानान् प्राह श्वापदान्-भोः किमर्थ क्रूरतरस्य सिंहस्य पार्थे गम्यते ? अहं भवत उत्तारयिष्यामिका नदीमिति । आकर्ण्य चैतत्तद्वचनं केचिद्विज्ञाः कथमस्मद्धीनबलोऽपि त्वमस्मानुत्तारयिष्यसीत्युपहासपूर्वकं तमवगणय्य पूर्ववत्सिंहमुपस्थितास्तेन रक्षिताश्च सुखिनो बभूवुः । केचित्तु जडधियः सुखासेव्यतया शृगालमुपास्थिषत । सिंहवत्तेनारोहिताः स्वपृष्ठे, विलगिताश्च पुच्छादौ, ततश्च स शृगालः कथमप्युत्पत्य परतीरगमनार्हफालबलविकलतया नदीमध्य एवाऽपप्तत् । आत्मानं तांश्च निमजयामासेति । एवं सिंहसदृशा गुरवः स्वं स्वाश्रितांश्च जन्मजरामरणादिदुःखदवाग्नौ प्रज्वलति भवविषयतृष्णानदी तरीतुं तारयितुं चक्षमा इति सेव्या हितार्थिना । शृगालसदृशाश्च कुगुरवः श्रुतार्थादि-1 ज्ञानक्रियानुष्ठानादिबलविकलाः स्वं स्वाश्रितांश्च मजयन्ति भवजले । तथा चागमः-कुसीललिंगं इह धारइत्ता, | इसिज्झयं जीविअ वूहइत्ता । असंजए संजय लप्पमाणे, विणिघायमागच्छइ से चिरं पि ॥१॥ उद्देसिअं कीअगडं निआगं, न मुच्चइ किंचि अणेसणिज । अग्गी विवा सबभक्खी भवित्ता, तओ चुओ गच्छइ कट्ट पावं ॥२॥ इति परिहरणीया दूरत इति द्वितीयो दृष्टान्तः २॥ ___ अथ मक्कडत्ति-मर्कटो वानरश्चेत्येकार्थों, स हि तादृक्फलाद्यनिन्द्याहारः, प्रकृत्या चापल्यभृजडः, स्वल्पसत्त्वश्च स्यात् । प्राप्तश्च प्राग्वर्णितस्वरूपां सिंहोल्लङ्घनीयां काञ्चिन्नदी यथासम्भवं बहुलजलावगाहिशाखाभरतटतरुशाखाद्यवलम्बबलेन फालपूर्वकं कथमप्युल्लङ्घते कश्चित्तां स्वेन, न पुनः परं प्रत्युल्लङ्घयितुं प्रभुः । तथा केचिद्गुर्वादिपरतन्त्रतया निर्दोषाहारकल्पितवृत्तयोऽप्यल्पसत्त्वा अबहुश्रुता विषयकषायादिप्रमादैश्चञ्चलीकृतचेतसोऽत एव सम्यक्संयमक्रियासु तथाविधं இரு ருபாகருகாது Jain Education in For Private & Personel Use Only Mainelibrary.org 0
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy