SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ उपदेशर तरंग ७ मुनिसुन्दर सू० वि० ॥६८॥ 00000000000000000 त्वशिरोमणयः क्षुद्राः पार्श्वस्थादयः स्वस्य पूजाद्यर्थ बालिशजनानां विविधावर्जनपरास्तेभ्यः सुखासेव्यं किञ्चिदेव स्वदेवगुरुगोत्रदेवीपूजादिकं धर्ममुपदिशन्तः किञ्चिद्रक्षामन्त्रतन्त्राद्यैहिकोपक्रियापरा बकवृत्तयोऽमी दुराराध्याश्चेत्यादिवाग्भिः सुविहितेभ्यो विरज्य तानात्मवशीकुर्वन्तस्तैरपि किञ्चिदैहिकार्थलुब्धैः प्रमादैकवशंवदचित्तवृत्तिभिर्महामोहान्धतमसाऽवलुप्तविवेकलोचनैर्निवहमाणधर्मोपदेशकतया सुखासेव्या इमे प्राञ्जलवृत्तयश्च, बकवृत्तयो दुराराध्याश्च सुवि|हितवेषधारिण इत्यादिधियाऽऽश्रीयमाणाश्च भवजले निमज्जन्ति स्वयं मजयन्ति च तानपीति । एतभावना च विशेपागमच्छेदग्रन्थप्रसिद्धकथानकतोऽवसेया । तच्चेदम्-बने क्वचिदेकः सिंहो निवसति । स च सर्वैर्वनश्वापदैर्वनान्तरादेकैकश्वापदार्पणेन सेवादिभिश्च प्रसादितस्तेन दत्ताभयैः सर्वोपद्रवेभ्यश्च त्रायमाणैः सेव्यमानो विराजते । तस्मिंश्च वने महानोका वहति । अन्यदा तत्र वने नद्या अक्तिटे महादवाग्निरज्वलत् । तदा च सर्वे श्वापदाः संभूय वनान्तरसिंहेभ्यो बिभ्यतो वनान्तरेषु गन्तुमशक्ताः स्वस्वामिनं सिंहमुपास्थिषत । स्वामिन् ! अस्मान्निस्त्राणांस्त्रायस्व त्रायस्वेत्यवदंश्च । सिंहोऽप्येष त्रातास्मीति तानाश्वास्याकार्य च नद्या उपकाण्डं जगाम । तांश्च कांश्चिदारूरुहत्पृष्ठे, कांश्चित्स्कन्धे, केसरादौ पुच्छादौ च व्यलीलगद्दढम् । फालं च दत्त्वा नद्याः परतोऽपप्तत् । तांश्च तत्रोत्तार्य पुनः फालं दत्त्वाऽक्तिटे प्राप। पुनस्तथैव (चक्रे स एवं) शेषश्वापदान् सर्वानपि द्विवादिफालैरुदतारयत्। उपशान्ते दवाग्नौ पुनस्तथैव सर्वान् श्वापदानाक्तटे प्रापयत् । ते च श्वापदास्तदादि सिंहे सञ्जाताधिकभक्तयस्तं सेवमानाः सुखेन विलसन्ति । तत्र कश्चिच्छ्रगालो लब्धो मया श्वापदोत्तारणोपायः, अहमप्येतानेवमुत्तार्य तैः सेव्यमानो विलसिष्यामीति गर्वितोऽन्यदा तथैव लग्ने PCGருருருருரு ॥६८॥ Jain Education For Private & Personal use only Homjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy