SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्राप्ताः । ततस्तच्छिष्यास्तत्स्वरूपं दृष्ट्वा न ज्ञायते कोऽपि कीदृश इत्यव्यक्तमतवादिनो मिथो वन्दनमकुर्वाणा राजगृहे मौर्यवंशोत्पन्नवलभद्रनृपेण सुश्रावकेण साम्नाऽप्रतिबोध्यानां तेषां प्रतिबोधनोपायमपरमविभावयता चौरा इति कृत्वा || धृताः कुट्टयितुमारेभिरे । तेऽवोचन्न वयं चौरा यतयो वयं, त्वं श्राद्धः किमस्मान् कुट्टयसि? राजाह-को वेद कः कीदृश इत्याधुक्तियुक्तिभिः प्रतिबोधिता इति । मातृसमाश्च ये साम्नैव प्रायः शिक्षयन्ति श्रीश्रेणिकवत् । अन्यदा सौधर्मेन्द्रेण श्रीसम्यक्त्वदायविषये श्रीश्रेणिकनृपप्रशंसा । अश्रद्दधानः सुरः परीक्षितुमनाः साधुवेषो नद्यां मत्स्यान् गृहीतुं जालपादि विकर्म कुर्वन् श्रीश्रेणिकेन तदा श्रीवीरजिनं वन्दित्वा पुरं प्रत्यागच्छता दृष्टश्चिन्तितं का च-हा ! धिगेष निष्कलङ्कद्वितीयेन्दुनिर्मलं भगवच्छासनं कलङ्कयति । ततो यथाऽन्ये न पश्यन्ति तथैनं निवर्तयाम्यस्मादुष्कर्मणः । ततो निर्व्यञ्जने (निर्जने) साम्ना तच्छिक्षा । ततः पुनरग्रे साध्वीं पीवरगर्भामद्राक्षीन्नृपः। मा भूच्छासनोड्डाह इति कृत्वाऽऽप्तः स्वगृहे आनाय्य साम्ना शिक्षयित्वाऽपवरके आप्तदासीकृतरक्षां तां स्थापयामास प्रसवावधीत्यादि । कल्पतरुसदृशाश्च केचन श्राद्धाः । यथाहि कल्पतरवः स्वजातौ तरुरूपायां परमावधिभूताः सुमनस्से|विताः सकलवाञ्छितदायिनश्च स्वाश्रितेभ्यो भवन्तीति, तथा केचिच्छ्राद्धाः श्राद्धेषु परमरेखामाप्तास्तत्तादृग्दृढशीलसम्यक्त्वादिगुणैः सुराणामपि सेव्याः । स्वाश्रितेभ्यो यथार्ह धनार्पणप्रतिष्ठारोपणादिनेह धर्मारोपणतत्सा-10 हाय्यकरणादिना, परलोकेऽपि च वाञ्छितदायिनश्च भवन्ति श्रीसंप्रतिनृपादिवत्, षष्ट्यधिकशतत्रय ३६० वणिक्पुपत्रसाधर्मिकस्वसमीकारकसा जगसिंहवत्, श्रीऋषभदेवान्वयालङ्कारसाधर्मिकभक्तिनिष्ठश्रीभरतचक्रिश्रीदण्डवीर्यनृपादि-| 00000000000000000 00000000000000000000000 उ.१२ Jain Education in For Private & Personal Use Only A nelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy