________________
मनिसन्दर व्यवहारशुद्धिः। न जानाति साधर्मिकान् ,नापि गुरून् , देवानपि, मदिरामत्त इव गतविवेकचैतन्योऽभूत् । ततो गुरुभिस्त-II उपदेशर, सू० वि०प्रतिबोधाय गाथा प्रेषि । उच्छिन्ना किं तु जरा, नहा रोगाय किं गयं मरणं । पिहिअं च नरयदारं, जेण जणो नो कुणइ तरंग ६
धम्मं ॥१॥ तां वाचयित्वा सद्यः प्राबुध्यत । सम्यग्धर्ममाराधयामासेति ७॥ अन्ये तु मित्रप्रतिमाः । ये गुरुषु प्रीति परां वहमानास्तदुक्तं धर्मोपदेशपदं परमार्थहितबुद्ध्या प्रतिपद्यन्ते आत्मानं च गुरूणां स्वजनादप्यधिकं मन्यन्ते, परं यथावसर विशेषकार्यादौ प्रश्नादिबहुमानमपेक्षन्ते । अनापृष्टाश्च मनाग् रुष्यन्तीति । तथा चागमः-मित्तसमाणो माणा, ईसि रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ अन्भहि॥१॥ एके पुनर्बन्धुवच्छ्रीगुरुवचनं परमार्थहितधियाऽङ्गीकुर्वते । मुनिष्वेकान्तेन हादस्नेहभृतः परभवादौ भवन्त्येव च सहायाः, परं विनयकर्मसु तथा नादरभृत इति बन्धुसमाः। यदाह-हियए ससिणेहो च्चिय, मुणीण मंदायरो विणयकजे । बंधुसमो साहूणं, पराभवे होइ सुसहाओ ॥१॥ केचन पुनः पितृसमा मातृसमाश्च ततोऽप्यधिकवात्सल्यभृतः। उभयेऽपि चैकान्तवत्सलाः प्रमादस्खलितादौ शिक्षयन्ति यथाविधि साधूनपि । न च दृष्टतत्स्खलिता अपि मनागपि मनसि निःस्नेहा भवन्ति । युगप्रधानश्रीकालिकसूरिशिप्यशिक्षकशय्यातरश्रावकवत् श्रीश्रेणिकादिवञ्च । तदुक्तम्-चिंतइ जइकजाई, न दिखलिओ वि होइ निन्नेहो । एगंतवच्छलो जइजणस्स जणणीसमो सड्डो॥१॥ तत्र पितृसमा ये यथावसरं साधूंस्तीक्ष्णमपि शिक्षयन्ति । बलभद्रनृपवत् । तथाहि-श्वेतविकापु- श्रीआषाढाचार्याः स्वशिष्यानागाढयोगान् वाहयन्तो निशि हृच्छूलेन मृता देवी- ॥६६॥ भूताः । स्नेहात् स्वदेहमधिष्ठाय योगान् सम्पूर्णीकृतवन्तः । ततो नव्यमाचार्य स्थापयित्वा स्ववृत्तान्तं निवेद्य च स्वस्थानी
00000 00000000000000000
0000000000000000
Jain Education
For Private
Personal Use Only
ainelibrary.org