________________
0000000098cc99000000000€
इत्यादि । आरूरुहच्च तदा तौ दिदर्शयिषामिपाच्छठःस, तावत्प्रेरितं यानं, प्राप्तं बर्बरकूले,विक्रीतौ तत्र तौ। गृहीतं बहु तन्मूल्यधनं, रज्यन्ते तत्र दुकूलानि नृशोणितैः । तक्ष्येते तत्र तौ तीक्ष्णक्षुरैः, आकृष्यते रक्तम् । एवं कष्टं सहमानयोर्गतो बहुसमयः। अन्यदा भूगुपुरागतपरिचितश्राद्धेनोपलक्ष्य मोचितौ, पश्चात्प्राप्तावालोचितप्रतिक्रान्तौ क्रियापरौ सेवेते स्म गच्छम् । गतेषु बहुषु वर्षेषु स एव द्रोही वणिगागात् “निसीही" इत्यादिप्रक्रियापूर्व प्रवृत्तो वन्दितुं यावदुपलक्षितस्तावत्क्षुलाभ्यां, न तु तेन तौ, आगतमात्रेण निमन्त्रितौ क्षुल्लौ यानदर्शनाय । ब्रूतः स्म च तौ-दिह बब्बरकूलं, दिवाणि अ सड तुम्ह चरिआई । अन्ने वंदसु सावय!, जे तुम्ह गुणे न याणंति ॥१॥ तच्छ्रुत्वा नष्टः स, ज्ञाततत्त्वो गच्छश्चिरं नन्दति | स्मेति । एवंविधा अन्येऽपि बहवः प्रसिद्धा इति ३॥ अथ वणिग्वत् केचन श्रावका ऐहिकमन्त्रतन्त्रनिमित्तचिकित्सादि-1| नोपकुर्वन्तमेव गुरुमिति कृत्वा भजन्ते ।। वस्त्राहारादिनोपचरन्ति च, नापरं मुधादायितयेति वणिक्समा दृष्टान्ताः प्रसिद्धाः ४ ॥ अन्ये च वन्ध्यगवीसदृशा येषु सुबह्वपि सुगुरूपदिष्टं भस्मनिहुतायते न पुनः कस्मैचिद्गुणाय, ब्रह्मदत्तचक्यादिष्विवेति ५॥ अपरे पुनर्नटोपमा ये सुगुरूक्तं धर्मोपदेशं सरसकथासूक्तादिरूपं धारयन्ति सर्वमपि लोकरञ्जनार्थ कण्ठस्थतयैव न पुनर्मनागप्यन्तर्भेदयन्ति ६ ॥ एते षडप्यभव्या दूरभव्या वा गुरुतरकाणो वा सर्वथाप्यभाव्या इत्युपदेशाऽयोग्या इति ६ ॥ तथा केचन धेनुसदृशा येषु दत्तं स्वल्पमपि धर्मपदं महाफलाय कल्पते, धनपतिमहेभ्यवत् । तथाहि-नन्दनृपे राज्यमनुशासति धनपतिश्रेष्ठी श्राद्धेषु लब्धरेखः स्वक्रियानिष्ठो यथाव्यवहारशुद्ध्या व्यवहरति अन्यदाऽपूर्ववस्तुप्राभृतीकरणात्तुष्टेन राज्ञा मुख्यो मन्त्री कृतः । ततः प्रमादपङ्कनिमग्नो व्यस्मरत्सर्वं धर्मकर्म, दूरीकृता
වගෙමටමලගෙනගමගයෙහිය.ගික
यन्ति ६ ॥ एते पदशं सरसकथासूक्तादिरून पुनः कस्मैचिद्गुणाय,
Jan Education
For Private
Personel Use Only
ainelibrary.org