SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० 9000000 सुगुरूपदेशा ऐकान्तिकहिता अमृतमया अपि विषतयैव परिणमन्ति । यदाह-सा साई तं च जलं, पत्तविसेसेण अंतरं गरुअं । अहिमुहपडिअं गरलं, सिप्पउडे मुत्तिअं होइ ॥ १ ॥ दृष्टान्ताः कालकंसूरिभागिनेयतुरमिणिनगरीशदत्तनृपादयः १ ॥ ॥ ६५ ॥ ॐ तथा केचिदामोषतुल्या ये गुरूणां छिद्रान्वेषिणः पदे पदे सदसत्प्रमादस्खलिताद्युच्चारयन्तस्तादृगूनिन्दापरा भवादिहेतुदुर्वचनायुधैस्तर्जयन्तो धर्मोपदेशाद्युपाददते गुरुभ्यो, धनमिवामोपका धनिभ्यः । श्रीगुरवोऽपि तथा तर्ज्यमाना अपि मा भूवन्नमी धर्मद्वेषिण इत्यादिविकल्पाहितभियस्तेभ्यस्तथाविधेभ्योपि श्राद्धेभ्यो यथार्ह धर्मोपदेशादि ददते । ततस्ते आमोषकतुल्या, भणिताश्चैते खरण्टादितुल्यतयाऽऽगमेऽपि । यथा -जह सिढिलमसुइ दबं, छुप्पतं पिहु नरं खरंटेइ । एवमणुसासगंपिहु, दूसंतो भन्नइ खरंटो ॥ १ ॥ थद्धो छिप्पेही, पमायखलिआणि निच्चमुच्चरइ । सो सवक्कि कप्पो, साहुजणं तणसमं गणइ ॥२॥ निच्छइओ मिच्छत्ति, खरंटतुलो सवकितुल्लो अ । वत्रहारओ बहू जं (बहुजा), जिणगेहाईसु गच्छन्ति ॥३॥ इति २ ॥ यथा च ठका मायया परेषां धनाद्यपहरन्ति तथा केचिच्छ्राद्धास्तादृग्विनयसंवेगवैराग्याभासदर्शनसम्यक् श्राद्धक्रियादेवगुरु| साधर्मिकभक्तिप्रभृतिभिर्विश्वास्य परेषां धनाद्यपहरन्ति । श्रूयते च भ्रमन्ति दाम्भिकाः केचि ददेवगुरुधार्मिकाः । परद्वीपादुपेतेन, विक्रीतौ वणिजा यती ॥ १ ॥ तत्सम्बन्धश्च भृगुक्षेत्रे केचिदाचार्याः । तेषां गच्छो महान् बालशैक्षाद्याकुलः । तत्रान्यदा द्वीपान्तरात्प्रवहणमागतं तन्मध्यादेको वणिग्मायावी कार्यस्याधीतश्रावकाचारो भ्रमन् वसतिं प्राप । ववन्दे ॐ गच्छं, प्रारेभे परिचयं, जज्ञे चाभिमत इव गच्छस्य, आवर्जितौ क्षुल्लकौ, प्रस्ताविता तयोर प्रवहणवार्ता । जाता तयोQ) स्तद्दिदृक्षा । गुरूनापृच्छय तं खलं पुरस्कृत्य गतावुपसागरम् । तदा च वाहनपूरणिकावसरः, प्रोत्तम्भितः सितपट Jain Education For Private & Personal Use Only उपदेशर• तरंग ६ ।। ६५ ।। w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy