________________
0000000 00
मोऽस्तु । गुरुभिस्ततोऽपि तस्य धर्मावाप्तिं विज्ञाय सर्वसमक्षं स एव नियमो दृढीचक्रे, पालयति च स लोकलज्जादिना, किञ्चिदाचार्यसम्पर्कजधर्मश्रद्धयापि च । अन्यदा राजकुले रुद्धो गृहमुत्स(त्सू)रेऽगात् । भोक्तुं यावदुपविशति तावनियम o सस्मार । कुलालस्य गृहं प्राप्तः, परं स न गृहे, ततः खनि प्राप्तः। नीचैः खनतःप्राप्तनिधेः कुलालस्य टहि दृष्ट्वा दृष्टा दृष्टेति
जल्पन मुष्टिं बद्धा पश्चाद्धावितः। शङ्कितेन कुलालेनार्द्ध सर्व वा तव, परं मा गाढं वदेत्युक्त्वा पश्चाद्वालितो निधि प्राप । कुलालाय पुनर्दयया किञ्चिद्ददौ । तत इहापि दृष्टधर्मफलस्तानेव गुरून् शरणीचक्रे । तदुक्तं धर्म सम्यगाराध्य स्वर्गमवाप क्रमाच्छिवङ्गमीति । यथा हि एते गुरवः कमलं साम्नवाशिक्षयंस्तन्मनोरञ्जनप्रकारैरेवं ये गुरवो भव्यांस्तत्तन्मनोरञ्जनादिभिः साम्नैव धर्मे प्रवर्त्तयन्ति ते मातृसमा इति मातृदृष्टान्तभावना ।
कप्पतरुणोत्ति-कल्पतरुवत्केचन गुरवः सर्वोत्तमज्ञानलब्धिसमृद्धिभृतः सुराणामप्याराध्यास्त्रिजगतोऽपि स्पृहणीयगुणा दुर्लभदर्शनाः सकलमनोवाञ्छितफलार्पणशक्तिभृतो भक्तिजलसेकमात्राराधिता निजाश्रितानां मनोऽभिमता अशेष
सुखफलसम्पादका भवन्ति । व्युत्तरपञ्चदशशत १५०३ तापसादिप्रतिबोधतत्परपरमान्नभोजनादिकेवलज्ञानावधिमनोवावाञ्छितफलदाधिश्रीगौतमगणधरादिवत् । इत्युक्ताः सर्पादिभिर्दृष्टान्तादशधा गुरवः । तेष्वाद्याः षट् सर्वथाप्ययोग्याः,
कुगुरव एवेति त्यागमर्हन्ति । अपरे च षड्भवजलधितरणतारणप्रभविष्णवो यथोत्तरमधिकाधिकशुभफलप्रदाश्च, सुगुरव इत्यादरेण सेव्या इति तत्त्वम् । अथेयमेव द्वादशभङ्गी श्रोतृनप्याश्रित्यातिदेशेन दयते-तत्र केचिच्योतारः सर्पोपमाः स्युर्येषु सुधापूरोपमा अपि
SUGGGGGGGGG4
Jain Education Interhit
For Private & Personel Use Only
C
ainelibrary.org