SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 50000000&coooooooooo ॥१॥ इति। यथासौ युवराजर्षिर्धातृज पुरोहितपुत्रं च ताडयित्वापि धर्भ प्रत्यपादयत्, एवं केचिद्गुरवोऽपीति पितृसमाः। इति पितृदृष्टान्तभावना। ला मायत्ति-माता हि पितुरप्यधिकतरैकान्तिकात्यन्तिकवात्सल्यभृद् भवति । तदुक्तम्-सुधामधुविधुज्योत्स्ना-मृद्वी काशर्करादिभिः । वेधसा सारमादाय, जनितं जननीमनः॥१॥ शिक्षयति च पुत्रं विविधलोभप्रदर्शनाद्यनुकूलाचरणा धुपायशतैरपि साम्नैवेति । तथा केचिद्गुरवोऽपि भव्यानिति मातृसमाः । कमल श्रेष्ठिसुतप्रतिबोधकतृतीयाचार्यवत् । ला तद्यथा-श्रीपुरनगरे श्रीपतिः श्रेष्ठी परमसम्यग्दृष्टिः । तस्य कमलः सुतः, परं धर्मपराङ्मुखो निर्लजो व्यसनी गुरुदर्शनं 131 दुरितमिति मन्यते, साधर्मिकान् सर्पानिव द्वेष्टि, देवाधिदेवस्तुतिपाठं शोकाक्रन्दमिव गणयति, धर्मविषये बहुधापि पितुः शिक्षा भस्मनिहुतायते स्म । नास्तिकः सर्वथोल्लुण्ठवचनो निरङ्कुशं गर्जन्नगरान्तश्चचार। अन्यदा श्रीशङ्करसूरीणामागमः, श्रेष्ठिना पुत्रस्वरूपविज्ञपनं, कमलस्य गुरुपार्थे प्रेषणम्,गुरुभिरुपदेशः पृच्छा च; वत्स ! किञ्चिद्विज्ञातम् ? कमल-न किश्चित् , किं कारणम् ? मया भगवतां कथादि कथयतां चलन्ती घण्टिकाऽष्टोत्तरशतवारं गुणिता । ततश्च पूज्यैश्चमरमेरुतोमरादिशब्दाः केऽपि गलबलायमानाः शीघ्रं शीघ्रं पठिताः । तत्रान्तरे घण्टिकाचलनसङ्ख्या नाज्ञायीत्यादि । ततोऽयोग्योऽयमित्युपेक्षितस्तैः । कमलः सुष्ठु हसितो जरद्व इति लोके जगर्ज। लोकाज्ज्ञाततद्धृत्तान्तः श्रेष्ठी लजितः । पुनरन्यदा शीलसा गरगुर्वागमः । प्राग्वत् सर्व, नवरमधः पश्यतास्मयाख्यानं सम्यक्चिन्तनीयमिति गुरुशिक्षावचः । कमलेन कीटिकादरप्र|| वेशसङ्ख्याकरणादि । तत उपेक्षितः सर्वैरपि सः । अथान्यदा केऽप्याचार्या विपश्चिजनमनोवसन्तास्तत्रैयरुः । तैरपि श्रुतं ஓருருருருருது Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy