________________
0000000000000000000004
सामात्यः श्रीकुमारपालनृपः श्रीगुरूणां ज्ञापितवांस्तत्स्वरूपम् । ततः श्रीगुरवो-राजन् ! त्वदाराधितधर्म एव सहायस्तष, चिन्तां मा कृथाः सर्वथेत्याश्वास्य नृपं ध्यानमारूढाः । गते मुहूर्ते गगनाध्वनायान्तं पल्यकमद्राक्षीनृपः । स च सुप्तकपुरुषः क्षणादागत्य गुरोः पुरस्तस्थौ पल्यङ्कः । कोऽयमित्यादिप्रश्नपरे भूपे स गर्जनाधीशोऽयं पल्यकसुप्तो यस्तवोपर्यागच्छनभूदित्यवोचन सूरयः। ततो जजागार शकाधीशस्तन्महिमानं तदैश्वर्य देवतासाहाय्यं श्रीगुरुवलं च विमृश्य श्रीकुमारपालेन सह त्यक्तवैरः स्वदेशे प्रतिपन्नषाण्मासिकसर्वजीवाऽमारिः सत्कृत्य राज्ञा विसृष्टः। अथान्यदा निशि सुखसुप्तस्य भूपस्य श्यामागास्कररूपा काचिद्देवी प्रत्यक्षीवभूव । नृपपृष्टाऽवदलूताधिष्ठायिकाह, पूर्वशापात्त्वदने प्रवक्ष्यामीत्युक्त्वा गता । प्रातस्तत्स्वरूपं नृपः श्रीसूरिभ्यो ज्ञापयामास । तैर्धर्मोपदेशः प्रतन्यते स्म, राजन् ! धर्म कुर्वित्यादि । रात्री भूपस्य महाव्यथाऽजनि । राजिकाकणमानः पृष्ठे पिटकोऽभूत् । प्रतीकारैरप्यनुपशमे श्रीगुरवःप्राप्ता, राजानं दुःखातं दृष्ट्वाऽवसरोचितमुपदिश्य मन्त्रिणं स्माहुः-मन्त्रिन्नपायानामुपायाः स्युः, बहुरत्ना वसुन्धरा । मन्याहादिशत । श्रीगुरुरभ्यधात्नात्र मन्त्रादीनां प्रभावप्रसरः, परं यद्यन्यस्य राज्यं दीयते तदा राज्ञः कुशलं, परं नायं धर्मः श्रीआर्हतानाम् । ततोऽस्माकमेव राज्यमस्तु । राजोचे-भगवन् ! को नाम कीलिकाहतोः प्रासादोच्छेदमिच्छतीत्यादि । गुरवोऽभ्यधुः-राजन् । युक्तमुक्तं यदि मे शक्तिर्न स्यात, परं-शक्तो हनूमान् यदबन्धयत्स्वं, विष्णुर्दधौ यच्च शिखास्वरूपम् । सैरन्ध्रिकाकारधरश्च भीम-स्तथाहमप्यत्र कृतौ समर्थः॥१॥ ततः क्रमाच्छून्यचित्ते भूपे सर्वसांमत्येन श्रीसूरी राज्ये उपविष्टः । तत्क्षणमेव राज्ञो व्यथा सूरिवपुषि संक्रान्ता । गुरुव्यथां ज्ञात्वा राजा वज्राहत इव गतसर्वस्व इव खेदमदुरो बभूव । ततः पक्कं
000000000000000000004
Jan Education
For Private 3 Personal Use Only
ainelibrary.org