________________
उपदेशर० तरंग ६
मुनिसुन्दर
तत्त्वं तद्यत्त्वां सोमेशोऽवददित्यादि । ततः श्रीगुरुसाहाय्यान्निस्तीर्णस्तां मिथ्यात्वापदं दृढसम्यक्त्वो बभूव क्रमादिति । सू० वि० अथान्यदा नवरात्रेषु देवतार्चनका भूपं व्यजिज्ञपन्-हे नरेन्द्र ! कण्टेश्वर्यादिकुलदेवीनां बलिहेतोः७,८,९, दिनेषु क्रमात्
७,८,९, शतान्यजमहिषा दीयन्ते, नो चेद्देवता विघ्नकारिण्यो भवन्तीत्यादि । ततो राजा श्रीगुरुवचसा दिनत्रयं भोगादि ॥६२॥
कुर्वन् जिनेश्वरध्यानकतानोनवमीरात्रौयावदास्ते तावत्कण्टश्वरी त्रिशूलहस्ता साक्षाद्भूयाऽवक्-राजन्! ऐषमो(एतद्भो)ऽस्मइयं कस्मात्त्वया नाऽदायि? त्वत्पूर्वजैः प्राग्दत्तमित्यादि। राजा स्माह-हे कुलदेवते! विश्ववत्सले! संप्रति जीवदयाधर्ममर्मज्ञो नाहं जीवान् हन्मीत्याद्यत्र जीवदयास्थापना, देवीं प्रति तदुपदेशश्च। ततो रुष्टा देवी त्रिशूलेन भूपं मूर्ध्नि हत्वा तिरोऽभूत् ।। तेन दिव्यघातेन सद्यो नृपः सर्वाङ्गीणदुष्टकुष्ठादिरोगग्रस्तोऽजनि । ततो मन्त्रिणमाकार्य देवीव्यतिकरमाचख्यौ, देहस्वरूपं चादर्शयत् । ततो वज्राहत इव जज्ञे मन्त्री, राजाऽवक्-मन्त्रिन्न मे कुष्ठादि बाधते, किंतु मद्धेतुकं जैनधर्मे लाञ्छनं भावीति यावत्कोऽपि न वेत्ति तावद्रात्रावेव वह्नौ प्रवेश्यामीत्यादिवदन्तं भूपं निषेध्य श्रीगुरूणां तत्स्वरूपं ज्ञापितवान् । ततो गुरुदत्ताऽभिमन्त्रितवारिणा सिद्धरसेनेव जात्यहेमद्युतिर्नुपदेवोऽभूत् । महान् हर्षो जिनधर्मप्रभावना । प्रातर्गुरुवन्दनाय गच्छन् शालाप्रदेशे स्त्रीकरुणस्वरं शुश्राव भूपः। ततस्तां कण्टेश्वरी निशि दृष्टां प्रत्यभिज्ञासीत्, श्रीगुरुन् प्रसाध मन्त्रबन्धादमोचयच्च । तदन्वष्टादश १८ देशेषु जीवरक्षातलारक्षतां कुर्वती सा राजभवनद्वारेऽस्थात्। अथ श्रीकुमारनृपोऽन्यदा वर्षासु श्रीपत्तनप्रतोलीभ्यो बहिनिर्गमननियम जग्राह । तं नियमं चरेभ्यो ज्ञात्वा गुर्जरदेशभञ्जनाय गर्जनेशो महानीका ताप्रयाणमकरोत्तत्स्वरूपं चरेभ्यो ज्ञात्वा एकतो देशभङ्गो लोकपीडाऽन्यतो व्रतभङ्ग इत्यतो व्याघ्रदुस्तटीसङ्कटे पतितः
GOGOOGGREGROOGOGO
இருக்காருருருருருரு.
करुणस्वरं शुश्राव भूपायहमद्युतिर्नुपदेवोऽभूत मध्य श्रीगुरूणां तत्स्वधर्म लाञ्छनं भावीति/8
॥६२॥
Jain Education in
For Private & Personel Use Only
Jainelibrary.org