________________
T
hiết Giáp từ 4
प्रातभित्तितो दूरे सप्तगब्दिकमासनमध्यास्य स्थिताः । ततो देवबोधेः समः कलावान् गुरुन दृश्यते कोऽपि, परं निजगुरौ श्रीहेमाचार्ये किञ्चित्कलाकौशलं संभाव्यते नवेत्यादि वदन्नृपः स्वामिन् ! प्रातर्देवबोध्यादिसमक्षं पृच्छयन्ते गुरव इत्यादिमन्त्रिवचसा देवबोध्यादिपरिवृतः प्रातगुरून्ननाम । ततोऽध्यात्मशक्त्या पञ्चापि मारुतान्निध्यासनात्किञ्चिदुच्छ्वस्य व्याख्यातुमारेभिरे गुरवः, तावत्पूर्वसङ्केतितः शिष्योऽधरासनमाकृषत् । ततो निराधारा एवास्खलितवचनैः सार्द्ध प्रहरं व्याख्यान्ति स्म । अथ देवबोधेरपि रम्भासनमासीत् , मौनेन च कायवायवः सुजयाः स्युः, परं व्याख्यानयतोऽस्य स्थितिरतिकौतुककरीति चिन्तयन्नपः श्रीगुरूनासने निवेश्योवाच-तिरोहिताः सर्वकलाः कलावतां, कलाविलासैस्तव सूरिशेखर ! । तेजस्विनां किं प्रसरन्ति दीप्तयः?, समन्ततो भास्वति भास्वति स्फुटम् ॥१॥ सूरयोऽपि मम देवतावसरं पश्येत्युदीर्य श्रीचौलुक्यमपवरकेऽनैषुः । तत्र च पुरापि हेमासनेषु निविष्टांश्चतुर्मुखानष्टमहाप्रातिहार्यादिविराजितान् चतुःषष्टि ६४ सुरेन्द्रसेव्यान् साक्षाच्चतुर्विशतिं २४ जिनेन्द्रान् श्रीचौलुक्यादीनेकविंशति २१ स्वपूर्वजांश्च रत्नाभरणादिविश्वातिशायिसम्पदाढ्यान् श्रीजिनाग्रे योजितपाणीन् दृष्टाऽनमत् । तेऽप्यवदन्-राजन्नेकस्त्वमेव विवेकी जगति । यो | हिंसादुष्टं श्रौतं धर्म त्यक्त्वा दयाधर्म प्रपन्नः, अयं गुरुः सर्वदेवतावतार एव तदुक्तं तत्त्वमाराधयेति । पूर्वजा अपि वत्स ! त्वया जिनधर्मादरणाद्वयं सुगतिभाजोऽभूम । ईदृशीं च महाँ भुञ्जमह इत्याद्युक्त्वा तिरोऽधुः । ततो दोलायितमना नृपः सम्यक्तत्त्वं श्रीगुरूनप्राक्षीत् । श्रीसूरयः प्रोचुः-राजन्निन्द्रजालकलावल्गितमेवैतन्न कश्चित्परमार्थः । देवबोधेरेकैवैषा मम तु सप्त सन्ति, तच्छत्या दर्शितमिदम् । यदि न प्रत्येषि तदा वद, विश्वमपि समयं दर्शयामि, परं न किञ्चिदेतत्,
BOOOOOOOOOOOOOOOOO
पा दर्शितमिदम्
राजन्निन्द्रजालकत्याद्युक्त्वा तिरोड येषि तदा वद, विगतमेवैतन्न कश्चित्परमार्थः । दोलायितमना
JainEducation
For Private & Personal Use Only
jainelibrary.org