SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग ६ मुनिसुन्दर ठामुखोऽभूत् । श्रीशान्तिप्रतिमा देवतावसरेऽतिष्ठिपत् । अथ नृपं श्रीजैनधर्मानुरक्तं ज्ञात्वा विप्रैराकारितः, प्रत्यक्षसरस्वतीको सू० वि० महेन्द्रजालादिविद्याचूडामण्यादिशास्त्रैरतीतानागतादिवेत्ता पूरकरेचककुम्भकपवनसाधनापटुश्चतुरशीत्या ८४ सन ॥ ६१॥ करणप्रवण आमतन्तुबद्धकमलनालकदलीपत्रासनाद्यधिरोही यथाहरूपक्रियापटुर्देवबोधिः पत्तने प्रापत् । राज्ञा समहं प्रवेशितः । कमलनालदण्डमामतन्तुबद्धं कदलीपत्रमयासनं अष्टवार्षिकशिशुस्कन्धन्यस्तमारुह्य नृपसदस्यागात, सर्वेषां विस्मयः, आसने निवेशित आशीःपुरस्सरं तत्तदद्भुतकलाविज्ञानाऽपूर्वप्रबन्धादिभिर्नृपं परिकर चारञ्जयत् । ततो विसृष्टसभः क्षमापो देवतावसरकरणाय प्राप्तो, देवबोधिरपि वयमप्यद्य राज्ञो देवपूजाविधि विलोकयिष्याम इत्यादिवादी राज्ञाकारितस्तत्रागात् । राजापि काञ्चनपट्टे शङ्करादिदेवान् श्रीशान्तिप्रतिमां च निवेश्य पूजयामास । तदा जिनप्रतिमा दृष्ट्वाऽवादीद्देवबोधिः-राजन् ! न युक्तं तवैतत्पूजनादि । यतः-"अवेदस्मृतिमूलत्वा-जिनधी न सत्तमः" ॥ अपि च, “नोलनीयाः कुलदेशधर्माः" किश्च,"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु" इत्यादि। ततो नृपोऽवोचत्, हे देवबोधे! श्रीतो धर्मो हिंसाकलुषत्वेनाऽसर्वज्ञप्रणीतत्वेन च मम मनसि न प्रतिभाति । जैनस्तु सर्वजीवदयासुन्दरत्वेन भृशं स्वदते। पुनर्देवबोधिः प्रोचे-राजन् ! यदि न प्रत्येषि तदा महेश्वरादीन् देवान् स्वपूर्वजांश्च मूर्तिमतोऽत्रागतान् स्वमुखेन पृच्छेति निगद्य विद्याशक्त्या तानदीदृशत् । अत्र महेश्वरादिदेवत्रयपूर्वजसंवादो देवबोधिवचनानुसारेण ज्ञेयः, यावदस्मत्प्रतिकृतिरेष देवबोधिर्महायती गुरुतया स्वीकार्य इत्याद्युक्त्वा ते सर्वे तिरोदधुः। ततो भूपो विस्मितः सोमेशोक्तं तदुक्तं च स्मरन् जड इवाऽजनि । अथ मन्त्रिवचसा ज्ञाततत्स्वरूपाः श्रीहेमसूरयः क्षमापतिं सांशयिकमिथ्यात्वापदो निस्तारयितुं GOOGGGGGGGGOODDESS Geocc33540000000OOOO ॥६१॥ Jain Education in For Private Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy