________________
उपदेशर० तरंग ६
मुनिसुन्दर ठामुखोऽभूत् । श्रीशान्तिप्रतिमा देवतावसरेऽतिष्ठिपत् । अथ नृपं श्रीजैनधर्मानुरक्तं ज्ञात्वा विप्रैराकारितः, प्रत्यक्षसरस्वतीको सू० वि०
महेन्द्रजालादिविद्याचूडामण्यादिशास्त्रैरतीतानागतादिवेत्ता पूरकरेचककुम्भकपवनसाधनापटुश्चतुरशीत्या ८४ सन ॥ ६१॥
करणप्रवण आमतन्तुबद्धकमलनालकदलीपत्रासनाद्यधिरोही यथाहरूपक्रियापटुर्देवबोधिः पत्तने प्रापत् । राज्ञा समहं प्रवेशितः । कमलनालदण्डमामतन्तुबद्धं कदलीपत्रमयासनं अष्टवार्षिकशिशुस्कन्धन्यस्तमारुह्य नृपसदस्यागात, सर्वेषां विस्मयः, आसने निवेशित आशीःपुरस्सरं तत्तदद्भुतकलाविज्ञानाऽपूर्वप्रबन्धादिभिर्नृपं परिकर चारञ्जयत् । ततो विसृष्टसभः क्षमापो देवतावसरकरणाय प्राप्तो, देवबोधिरपि वयमप्यद्य राज्ञो देवपूजाविधि विलोकयिष्याम इत्यादिवादी राज्ञाकारितस्तत्रागात् । राजापि काञ्चनपट्टे शङ्करादिदेवान् श्रीशान्तिप्रतिमां च निवेश्य पूजयामास । तदा जिनप्रतिमा दृष्ट्वाऽवादीद्देवबोधिः-राजन् ! न युक्तं तवैतत्पूजनादि । यतः-"अवेदस्मृतिमूलत्वा-जिनधी न सत्तमः" ॥ अपि च, “नोलनीयाः कुलदेशधर्माः" किश्च,"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु" इत्यादि। ततो नृपोऽवोचत्, हे देवबोधे! श्रीतो धर्मो हिंसाकलुषत्वेनाऽसर्वज्ञप्रणीतत्वेन च मम मनसि न प्रतिभाति । जैनस्तु सर्वजीवदयासुन्दरत्वेन भृशं स्वदते। पुनर्देवबोधिः प्रोचे-राजन् ! यदि न प्रत्येषि तदा महेश्वरादीन् देवान् स्वपूर्वजांश्च मूर्तिमतोऽत्रागतान् स्वमुखेन पृच्छेति निगद्य विद्याशक्त्या तानदीदृशत् । अत्र महेश्वरादिदेवत्रयपूर्वजसंवादो देवबोधिवचनानुसारेण ज्ञेयः, यावदस्मत्प्रतिकृतिरेष देवबोधिर्महायती गुरुतया स्वीकार्य इत्याद्युक्त्वा ते सर्वे तिरोदधुः। ततो भूपो विस्मितः सोमेशोक्तं तदुक्तं च स्मरन् जड इवाऽजनि । अथ मन्त्रिवचसा ज्ञाततत्स्वरूपाः श्रीहेमसूरयः क्षमापतिं सांशयिकमिथ्यात्वापदो निस्तारयितुं
GOOGGGGGGGGOODDESS
Geocc33540000000OOOO
॥६१॥
Jain Education in
For Private
Personel Use Only
www.jainelibrary.org