________________
उपदेशर० तरंग ६
कादिकर्मस्वनादरः, नापि तदपेक्षी, परस्मादपि विशिष्य पराभवे सङ्कटादौ च भवत्येव तस्य सहायः । तथा केचिद्गुरवः सू०वि० श्रद्धालुषु जनेष्वकृत्रिमातुच्छवात्सल्यभृतः सदाप्युपदिशन्ति परमार्थहितं धर्म, न पुनस्तद्विषयगुणसंस्तवावर्जनादिवि
शेषोपचारक्रियासु तथादरभाजः । नापि तेभ्यस्तादृग्बाहीकोपचाराद्याकानिणो, विशिष्य परं पराभवे रोगातङ्कादौ सङ्टे चैहिकेऽपि धर्मस्थिरीकरणाद्यर्थ, पारत्रिकेऽपि च धर्मादिगोचरे भवन्त्येव तेषां साहाय्यकृत: सर्वशक्त्यापि, यथा श्रीहेमचन्द्रगुरवः श्रीकुमारपालनृपं प्रति । तथाहि-अन्यदा श्रीजयसिंहदेवे गुर्जराधाच्यां राज्य शासति तद्भ
यान्नष्टवृत्त्या भ्राम्यन् श्रीकुमारपालः स्तम्भतीर्थे प्राप्तः । तत्र जिघांसुतया प्राप्तराजनरेभ्यः परित्रातः श्रीहेमसूरिभिः कशालास्थभूगृहनिक्षेपादिना कथमपि । ततः क्रमाद्राज्यप्राप्तौ पत्तने श्रीहेमचन्द्रगुरवो विद्युद्विघ्नान्निस्तारयाञ्चक्रुस्तम्।
तद्यथा-अन्यदा श्रीगुरवोऽपृच्छन्नुदयनमन्त्रिणं, राजास्माकं स्मरति नवेति । मन्त्रिणोक्तम्-नेति । ततोऽन्यदोचे श्रीगुरुभिः, मन्त्रिन्नद्य भूपं रहो ब्रूयाः “ अद्य त्वया नव्यराज्ञीगृहे न स्वप्तव्यं, रात्री सोपसर्गत्वात् । केनोक्तमिति पृच्छेच्चेत्तदात्याग्रहे मन्नाम वाच्यमिति । ततो मन्त्रिणा तथोक्ते राज्ञा तथाकृते निशि विद्युत्पातात्तस्मिन् गृहे दग्धे राज्यां च मृतायां चमत्कृतो राजा सादरम् मन्त्रिन ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं चेत्यतिनिर्बन्धे मन्त्रिणोचे श्रीगुरुस्वरूपम् । प्रमुदितो नृपः तानाकारयामास सदसि । श्रीगुरून् दृष्ट्वासनादुत्थाय वन्दित्वा प्राञ्जलिरुवाचभगवन् ! तदा स्तम्भतीर्थे रक्षितोऽहं श्रीपूज्यैः, संप्रति चास्मादुपसर्गात्ततो निष्कारणप्रथमोपकारिणां पूज्यानां कथञ्चनाप्यहं नानृणो भवामि । ततो राज्यमिदं गृहीत्वा मामनुगृहाणेति । ततः सूरिरुवाच-राजन् ! निःसङ्गा
00000000000000000000
இருடுடுடுடுடுடுடுடுடுடு
॥६०।।
Jain Education in
all
For Private & Personel Use Only
wwdainelibrary.org