________________
मुनिसुन्दर सू०वि०
तरग ६
॥ ५९॥
90000000000000000
मिश्राः ! किमस्मत्पुरतः शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वे, सूरयः-युष्मद्देवाशिषः पठन्तःस्म, यथारुचि हिश्रोतुः पुरः पठनीयम् । वाक्पतिः यद्यप्येवं तथापि मुमुक्षवो वयमासन्नं निधनं ज्ञात्वा इह परमब्रह्मध्यातुमायाताः स्म, सूरयः-किं तर्हि रुद्रादयो मुक्तिदातारोन भवन्तीति मनुध्वे ? वाक्पतिः--एवं संभाव्यते । सूरयो बभाषिरे-तर्हि यो मुक्तिदानक्षमस्तं शृणु पठामः-जं दिट्ठी करुणातरंगियफुडा एयरस सोम्म मुहं, आयारो पसमागरो परियरो संतो पसन्ना तणू । तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो जिणो, देवाणं अवराण दीसइ जओ नेयं सरूवं जए॥१॥वाक्पतिः-स जिनः वास्ते ? सूरयः-स्वरूपतो मुक्ती, मूर्त्तितस्तु जिनायतने । ततः श्रीआमनृपकारिते प्रासादे श्रीजिनमूर्ति दर्शयित्वा तं प्रतिबोध्य जैनधर्म प्रति|पाद्य कियद्भिर्दिनैः किन्यकुछ प्राप्ताः, चरैः प्रागपि ज्ञातवृत्तान्तो राजा तत्संमुखं गत्वा समहं तान् प्रावेशयत् ।राजाह-- भगवन्नद्भुतं प्रभूणां वचःसामर्थ्य, सोऽपि यत् प्रतिबोधितः । प्रभुः प्राह-अथ का शक्तिर्मम यत्त्वं न बुध्यसे । राजाह-सम्यग्बुद्धोऽस्मि, त्वद्धर्मोऽस्तीति निश्चितम् । माहेश्वरं पुनर्धर्म, मुञ्चतो मे महाव्यथा ॥१॥ तेन हे भगवन् ! पृच्छामि को मे| पूर्वभवः? प्रधाना अपि तदा प्राहुः-भगवन्! प्रसद्य नृपपूर्वभवः कथ्यताम् । ततः प्रभुः प्रश्नचूडामणिशास्त्रबलेन तं प्राह-शृणु भूपते ! कालिञ्जराख्यस्य गिरेः शाल दुमोलस्थशाखाबद्धभुजद्वयोऽधोमुखो जटाकोटिसंस्पृष्टभूतलो व्यह्ने व्यहे मिताहारी रागादिरहितः साग्रं वर्षशतं घोरं तपस्तत्वायुःप्रान्ते त्वं राजाऽभूः। यदि न प्रत्ययस्तदा सुभटान् प्रेषय, अद्यापि तत्तरोरधस्था जटा आनायय । इति श्रुत्वा नृपो जटा आनाययत् । मुनीन्द्रोऽयमहो! ज्ञानी कोऽप्यद्भुत इति प्रशंसां चक्रे च । का अन्यदा प्रपञ्चलक्षैरपि दुर्ग्राह्यं राजगिरिनगरं राजा रुरोध। तत्र समुद्रसेनो राजा, स प्राकारः कथमपि ग्रहीतुं न शक्यते ।।
1000000000000000000
जज
Jain Education Internet
For Private Personel Use Only
ainelibrary.org